पृष्ठम्:करणपद्धतिः.pdf/४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणपद्धतौ दशमोऽध्यायः । त्रिभोनितेऽस्मिन् पुनरायनांशं व्यस्तं च कुर्यात् स निजस्फुटः स्यात् ॥ १० ॥ गणितमिदमशेषं युक्तियुक्तं पठन्तो भुवि गणकजनानामग्रगण्या भवेयुः | अपि च गतिविशेषात् कालतुल्यस्य विष्णोः सुभृशमनुभवन्तो यान्ति तडाम शुद्धम् ॥ ११॥ च इति शिवपुरनामग्रामजः कोऽपि यज्वा किमपि करणपद्धत्याह्वयं तन्त्ररूपम् । व्यथित गणितमेतत् सम्यगालोक्य सन्तः कथितमिह विदन्तः सन्तु सन्तोषवन्तः ॥ १२ ॥ इति करणपद्धती दशमोऽध्यायः ॥ शुभं भूयात् ॥