पृष्ठम्:करणपद्धतिः.pdf/९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥ करणपद्धतिः । प्रथमोऽध्यायः । मदीयहृदयाकाशे चिदानन्दमयो गुरुः । उदेतु सततं सम्यगज्ञानतिमिरारुणः ॥ १ ॥ मार्ताण्डादीन् महान् नत्वा तत्प्रसादाद् विलिख्यते । गुणहारगुणादीनां करणे कापि पद्धतिः ॥ २ ॥ नानाज्ञान प्रगल्भस्तिलवलम- सुसूक्ष्मं धयेद्रराजदम्भो भद्रोदन्तोधरेन्द्रो निरनुसृग- धिसौख्यं वरिष्ठोऽभिषङ्गः । दोर्दण्डामेsद्रिनाथो विषमितवि- पिनं चन्द्ररेखाम्बुखिन्ने- त्यर्कादेः पर्ययाः स्युः क्षितिदिनम- नृशंसःकळार्थीसमर्त्यः ॥ ३ ॥ रूपाहताकभगणाः खलु सौरमासा मासा रवीन्दुभगणान्तरमेव चान्द्राः । चन्द्रार्कमासविचरं च युगाधिमासा मासाः पुनर्नगहता दिवसस्वरूपाः ॥ ४ ॥ चान्द्रमासा नगाभ्यस्ता भूदिनोनास्तिथिक्षयाः । मूदिनाढ्यार्फभगणा नाक्षत्रदिवसाः स्मृताः ॥ ५ ॥ o12135 1 23-1111 [3