पृष्ठम्:करणप्रकाशः.pdf/२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ करणप्रकाशे । स्पष्टाधर्म । ‘चरघटीसहिता रहिताः क्रमात् तिथिमिता घटिकाः खलु गोलयोरित्यादिभास्करविधिना स्फुटैव वासना ॥११॥ तुलादिमेषादिभपङ्कसंस्थे क्रमाद्गृहे दक्षिणसौम्यगोलौ । कर्यादिषदस्थितिभाति याम्यं सौम्यायनं स्यान्मकारादिषजे ॥१२॥ स्पष्टार्थम् ॥१२॥ भुक्तिश्वरार्धेन हता विभक्त स्खखङ्गरामैः ३६०० कलिकादिलब्धम्। सूर्येऽस्तगे स्वं खचरे त्वादावृणं तुलादावुदितेऽन्यथा स्यात् ॥१३॥ स्पष्टार्थम् । यदि षत्रिंशच्छतपलैशृंहगतिस्तदा चरपलैः किम् । लब्धाश्ररसम्ब न्धिकलाः।‘आदौ स्वदेशेऽथ निरक्षदेशे सूर्योदयो व्यस्तमतोऽस्तकाल' इत्यादिभास्करविधिना धन“पपत्तिः स्कुय ॥१३॥ अकॅनशीतांशुकला विभक्तः स्खदस्रथैलै-७२० स्तिथयो गताः स्युः। फलं गतैष्ये गगनाङ्ग-६० निने गत्यन्तरेणापहृते च नाड्यः ॥१४॥ सद्यार्थम् । द्वादशभिरंशैर्वा खकरनगकलाभिः सूर्यचन्द्रविवरकलाभिरेका तिंथिरिति प्रकटैव वासना । गत्यन्तरानुपातेन गतैष्यघटीसाधनं चातिसुगमम् ॥१४॥ कला ग्रहस्यास्बरपूर्णनागै-८०० विभाजिता भानि हृते गतैष्ये । भुक्त्या दिनान्यर्कशशाङ्गयोगे योगस्तथान्ये गतियोगभक्ते ॥१५ प्रहस्य कलाः खखगजैर्भक्ता लब्धानि भानि गतानि नक्षत्राणि स्युः । शेषकलाा गतकलास्ता हरतः शुद्धा एष्यकलाः । ते गतैष्ये कले भुक्या अहस्य गत्या हृते दिनानि गतैष्यानि भवन्ति । एवमर्कशशाङ्कयोगकलाः खखगजहता लब्धो योगो गतो भवति । शेषं गतकलास्ता हरात् पतिता एष्यकशः । एवं ये अन्ये गतैष्यकले ते रविचन्द्रगतियोगहृते गतैष्य दिनानि भवन्तीत्यर्थः ।