पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्र. १ख. ] कम्प्रदीपः | सदोपवीतिना भाव्यं सदा बडशिखेन च । विशिखोव्युपवीतश्च यत्करोति न तत्कृतम् ॥ ४ ॥ इति । यत् यदुपक्रम्य पठितं तत्तत्रैवाङ्गमिति न्यायात् न चो- च्छ्रितमिति कात्यायनीयो निषेधस्तदुक्तकल्प एवाभिनिविशते, न ह्यासंग्रहोते कल्पे । एवं तदुक्तो नाभेरधःकरण निषेधस्तदुक्त- एव कल्पेऽभिनिविशते, न कात्यायनोक्त कल्पे इति द्रष्टव्यम् । तदनयो; परिमाण्योर्विकल्पः । कुतः ? इयोरेव स्वशास्त्रोक्तत्वात् । यच, गोभिलपुत्ववचनमविदुषा नारायणोपाध्यायेन, “स्तनादूईमधोनाभेर्न कर्त्तव्यं कथञ्चन” । ११ इति देवलोकं परिमाणं तदनादरणीयम् ॥ ३ ॥ गोभिलौयव्यतिरिक्तविषयमित्युक्तम् । परिशिष्टप्रकाशः | कमङ्गत्वं यज्ञोपवीतस्य, “यज्ञोपवीतिना आचान्तोकेन कृत्यम्, " इति सूत्रात् । तथाच कम्मकालमात्रे धारणं नान्यदेति प्रसक्तावाह | सदोपवीतयुक्तेन बद्दचूड़ेन च भवितव्यम् । एतेन शिखाबन्धोपवीत धारणयोः पुरुषार्थतोक्का | तत्वाधारणे प्रत्यवायः । पुरुषार्थतया सदा धारणात् कम्मकालेऽपि धारणोपपत्तेः किं कमङ्गता नास्त्ये- बेत्यवाह | विशिख इत्यादि । शिखोपवीतरहितेन यत्कम् कृतं, न तत्कृतम् । विगुणत्वेन फलामाधकत्वादित्यभिप्राय: । केवल