पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्प्रदीपः । सन्ध्यादयेऽप्युपस्थानमेतदाहु र्मनीषिणः । मध्ये त्वह उपर्यस्य विभ्राडादीच्छया जपेत् ॥ ११॥

[ २प्र. १ख. ] परिशिष्टप्रकाशः । पूर्व्वा निगदव्याख्यातम् । मध्याई प्रातःसन्ध्यायाञ्च विवाड़- बृहदित्यनुवाकं शिवसङ्ल्यं मण्डलब्राह्मणं पुरुषसूक्तं च इच्छया जपेत् न त्ववश्य मिति ॥ ११ ॥ प्रभा । "कराभ्यां तोयमादाय गायत्रा चाभिमन्त्रितम् । आदित्याभिमुखस्तिष्ठन् विरूईं सन्ध्ययोः क्षिपेत् ॥ मध्याहे तु सक्कदेवं क्षेपणयं द्विजातिभिः” । इति व्यासवतनोक्ता व्यवस्था तु गोभिलोयव्यतिरिक्तविषया । अत्र सामान्यत एवाञ्जलिमित्यभिधानात् । सूर्योपस्थाने मध्या विशेषाभिवानेनास्य सामान्य विषयत्वावगतेश्च । तदनन्तरं उदुत्यं जातवेदसमिति चित्रं देवानामिति च ऋग्हयेनादित्यस्योपस्थानं कुर्य्यात् । अवाप्युत्यायेति वर्त्तते ॥ १० ॥ सध्याइयेऽपीति | प्रातः सायंसन्ध्ययोरेवमुपस्थानं मनीषिणो- वदन्ति । अहो मध्ये मध्याइसन्ध्यायान्तु अस्योपस्थानस्योपरि पश्चात् विभ्रा बृहदित्यादिक दशतिसमाप्तिपर्यन्तं इच्छया जपेत् । एवमेव पाठः सर्व्वल दृश्यते । नारायणोपाध्यायेन तु मध्ये वह उदये चेति पठितं, मध्याहे प्रातःसन्ध्यायान्तु इति व्याख्यातञ्च । सञ्चिन्तनीयम् । सन्ध्याइयेऽप्येवमुपस्थानमित्यनुपपत्तेः ॥ ११ ॥

  • मेवम इति पाठान्तरम् ।