पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्र. १ख ] कमप्रदीपः । शापेक्षयेति कल्पतरूता व्यवस्था । "इन्द्रियाण्यद्धिः संस्पृशेत् पक्षिणी नासिके कर्णाविति यद्यमीमांस्यं स्यात् तदद्भिः सृशेत्" इत्युक्तं गोभिलेन । तदव्यक्त व्यक्तीकरोति । एतानि वच्चमाणानि समीपे स्टभेत् । न तु तत्तत्स्थाने । समलत्वात् । आस्यादीनां समासे- नेकपदेनोपादानं तेषां सोपसर्जनस्पृशतिसम्बन्धायें, नाभ्यादीनाच पृथक्समासेनोपादानं स्पृथतिमावसम्बन्धार्थम् । अयं चास्यादिक्रमो- दक्षोक्त इत्यङ्गुलोनियमोऽपि स एव ग्राह्यः । तथाहि दक्ष:- “अनेनैव विधानेन आचान्तः शुचितामियात् । प्रक्ष्याल्य पाणी पादौ च त्रिः पिवेदम्बु वोक्षितम्” ॥ अनेन वध्यमाणेन । १५ “संवृत्याङ्गुष्ठमूलेन दिः प्रमृज्यात्ततो मुखम् । संहत्य तिसृभिः पूर्वमास्यमेवमुपस्पृशेत्” । मुखं संवृत्य ततः प्रमृज्यादित्यर्थः । एवमिति संहत्येत्यर्थः । “अङ्गुष्ठेन प्रदेशिन्धा व्राणम्पश्चादनन्तरम् । अङ्गुष्ठानामिकाभ्याञ्च चक्षुः श्रोत्रे पुनःपुनः ॥ नाभिं कनिष्ठाङ्गुष्ठेन हृदयं तु तलेन वे । सर्वाभिस्तु शिरः पश्चादाह चाग्रेण संसृशेत् ॥ तिसृभिः पूर्वमास्यं सदाऽङ्गुष्ठप्रदेशिनीभ्यां पश्चात् घ्राणं, अनन्तरं चक्षुषी श्रोत्रे पुनःपुनरित्यर्थः ॥ ५ ॥ प्रभा । "आचान्तोदकेन कृत्यम्" इति गोभिलोकमाचमनं व्यक्ती- करोति विः प्राभ्येति ।