पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/२२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कर्मप्रदीयः । ब्राह्मणातिकमो विमे नास्ति वेदविवर्जिते । ज्वलन्तमग्निमुत्सृज्य नहि भस्मनि इयते ॥ तो वेदविवर्जित ब्राह्मणे व्यतिक्रमदोषो नास्ति; भस्मसदृश- त्वात् तस्याईस्य ज्वलद मिसदृशत्वात् ॥ इति दक्षिणा निर्णयः तदुद्देश्य निर्णयश्च समाप्तः । अथ आज्यस्थाल्या दिस्वरूप निर्णयः || माज्यस्थालौ च कर्तव्या तैजसद्रव्य संभवा । माहेयौ वापि कर्तव्या नित्यं सर्वाग्निकर्मसु ॥ सर्वेष्वग्न्याधाना दिकर्मरूपेषु होतव्याज्यस्थापनार्थं यः पिचर आज्यस्थालौ तावचर, सुवर्णादिमयी कर्तव्या म्हण्मयी वा याय मूर्खाय वा देया, किंतु सन्निहितश्रोचिषायैव, न तु मन्त्रि- कृष्टायापि मूखयेत्यादिकमर्थं विशदं निरूपयति- सन्निकृष्ट मित्यादिना स्पष्टमितरत् ॥ इति दक्षिणा निर्णयस्तत्संप्रदाननिर्णयश्च समाप्तः । - माहेयौ | महीमयौ वेति पाठान्तरम् । स्पष्टमन्यत् ॥ इत्याज्यस्थाल्यादिख रूपनिर्णयः समाप्तः ।