पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १प्र. ३ख. ] कम प्रदीपः | ५.३ प्रभा । इति । न च परोक्तगुणानुपसंहारे भाखान्तराधिकरणन्याय- विरोध इति वाच्यम् । तक्रायस्य श्रीतविषयत्वात् । वाचनिके- थे न्यायानवताराच । किञ्च नानोऽभेदेऽपि यथासम्भवं रूपभेदा- दिभ्यः तस्य तस्य कर्मान्तरत्वमेवेति कुत्र कस्य गुणोपसंहारः | न हि कम्मन्तिरे कमन्तिरगुणानामुपसंहारः शास्त्रानुमतः । अतएव - “नैकस्मिन् कमणि तते कर्मान्यत्तायते यतः" । इत्यनेन वैश्वदेवव लिकमणोः सामान्ययोः विशेषोताभ्यां ताभ्यां कर्मान्तरत्वं स्वयमेव वक्ष्यति । यच पुराणोत साधारणं, तत् यद्यपिन पारक्यं, तथापि स्वशास्त्रोक्त प्रयोगे न तस्य गुणोपसंहारः । तस्य कर्मान्तरत्वात् कमान्तरे चं कर्मान्तरगुणानामुपसंहारा योगात्। पूर्व्वोक्तग्टह्यपरिशिष्टे अनारम्भ विधानादन्यैर्गृह्यादेः समु चयनिषेधाच्च । किन्तु स्वशास्त्रोक्तप्रयोगानुष्ठानानन्तरं फलभूय- स्त्वार्थमिच्छया तस्याप्यनुष्ठानं भवेदित्यपि वैश्यदेववलिकर्मणो स्वयमेव वक्ष्यति । अनार भविधानैः समुच्चयेऽप्येषैव गतिः । तेषा- मनुष्ठाने फलभूयस्त्वमननुष्ठानेऽपि गृह्योकमावस्यानुष्ठानात् फल- सिद्धिः । तथाचोक्तं, बह्वल्पं वा स्वग्टह्योक्तमित्यादि । मदन- पारिजातेऽप्युक्तम् । असमर्थयेत् खग्टह्योक्तमात्रमेव करोति तातैव तस्य शास्त्रार्यतिवेरुतत्वात्, इति । तस्मात् श्रौतेंषु पारशाखिकं कर्त्तव्यं, गृह्योक्तेषु तन कर्त्तव्यम् । अनारभ्य विहितन्तु गृह्योक्तोऽपि प्रयोग कर्त्तव्यं, परमेषामकरणेऽपि