पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १५. १ख. ] कम्प्रदीपः । वामावर्त्तवलितसूत्रवयं त्रिगुणोकृत्य दक्षिणावर्त्तवलितं कार्य्यम् । एवं नव तन्तवः । तदेव विसरमुपवीतं स्यात् । तस्य चत्रिसरस्यैको ग्रन्थिर्मुनिभिरिथते । तञ्च सूत्रं कार्पासं कौशेयं च ब्राह्मणस्य । तथाच मनुः, - - “कार्पासमुपवीतं स्थाहिमस्योवृतं त्रिवृत् । शणस्त्रमयं राज्ञो वैश्यस्याविकस्वकम्” | बौधायन:, - “कौशं सौवं विस्तिं यज्ञोपवीतमानाभः" । कौशं कमि - कोशोत्यं वसरपस्वादिमयम् । सौलं कार्पासम् । विस्वितं नवगुणं विसरीकतमित्यर्थः । "नव वै विवत:" इति श्रुतेः । यच देवलवचनम् । “कार्पासचौमगोबालशणवखवणोद्भवम् । सदा सम्भवतो धार्थमुपवीतं द्विजातिभिः” । इति । तत्पुर्वपूर्वासम्भवे उत्तरोत्तरविधायकम् । तथा “यज्ञोपवीतं कुर्वीत सूत्राणि नवतन्तवः | एकेन ग्रन्थिना सन्तुद्दिगुणस्त्रिगुणोऽथवा" || द्विगुण इति विसरासम्भवे दिसरमित्यर्थः । यञ्च पैठोनसिवचनम् । “कार्पासमुपवीतं षट्तन्तु विवृतं ब्राह्मणस्य, चौमं राजन्यस्य, भाविकं वैश्यस्य" । तदपि नवतन्त्वसम्भवे तन्तुषट्कं विधत्ते ।