पृष्ठम्:काठकोपनिषत्.djvu/१०६

एतत् पृष्ठम् परिष्कृतम् अस्ति

१।३।१० ८४ बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम् ॥ १० ॥ तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् । अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ ११ ॥ नैव वाचा न मनसा प्रामुं शक्यो न चक्षुषा । [शांकरभाष्यम् ] त्रादीन्द्रियाणि ज्ञानान्युच्यन्ते । अवतिष्ठन्ते सह मनसा यदनुगतानि तेन संकल्पादिव्यावृतेनान्तःकरणेन । बुद्धिश्चाध्यवसायलक्षणा न विचेष्टति स्वव्यापारेषु न विचेष्टते न व्याप्रियते तामाहुः परमां गतिम् ॥१०॥ तामीदृशीं तदवस्था योगामिति मन्यन्त वियोगमेव सन्तम् । सर्वानर्थसं- योगवियोगलक्षणा हीयमवस्था योगिनः । एतस्यां ह्यवस्थायामविद्याँध्यारोपण- वर्जितस्वरूपप्रतिष्ठ आत्मा । स्थिरामिन्द्रियधारणां स्थिरामचलामिन्द्रिय- धारणां बाह्यान्तःकरणानां धारणमित्यर्थः । अप्रमत्तः प्रमादवर्जितः समा- धानं प्रति नित्यं यत्नवांस्तदा तस्मिन्काले यदैव प्रवृत्तयोगो भवतीति सामर्थ्यादवगम्यते । न हि बुध्द्यादिचेष्टाभावे प्रमादसंभवोऽस्ति । तस्मा- त्प्रागेव बुध्द्यादिचेष्टोपरमादप्रमादो विधीयते | अथवा यदवान्द्रयाणा स्थिरा धारणा तदानीमेव निरङ्कुशमप्रमत्तत्वमित्यतोऽभिधीयतेऽप्रमत्तस्तदा भवतीति । कुतः । योगो हि यस्मात्प्रभवाप्ययावुपजनापायधर्मक इत्यर्थोऽ तोऽपायपरिहारायाप्रमादः कर्तव्य इत्यभिप्रायः ॥ ११ ॥ बुद्धयादिचेष्टाविषयं चेद्रहोदं तदिति विशेषतो गृह्येत बुध्घाघुपरमे च ग्रहण- कारणाभावादनुपलभ्यमानं नास्त्येव ब्रह्म । यद्धि करणगोचरं तदस्तीति प्रसिद्धं लोके विपरीतं चासदित्यतश्चानर्थको योगोऽनुपलभ्यमानत्वाद्वा नास्ती त्युपलब्धव्यं ब्रह्मत्येवं प्राप्त इदमुच्यते । सत्यम्-नैव वाचा न मनसा न [प्रकाशिका] इति । शरीरान्तःसंचरणं विहाय मोक्षार्थगमनं परमा गतिरिति तत्रैव स्पष्टम् ॥ १० ॥ तां पूर्वमन्त्रनिर्दिष्टां बाह्याभ्यन्तरकरणधारणां परमां गतिं योगमिति मन्यन्ते । उक्तं च व्यासार्यैः, परमा गतिर्योग इत्यर्थ इति । इन्द्रियाणां निर्व्यापारत्व एवावहितचित्तता भवति । चित्तावधानं किमर्थमित्यत्राह योगस्य प्रतिक्षणापायशालितयावधानमपेक्षितमिति भावः । यद्वा इष्ट- प्रभवानिष्टाप्ययलक्षणसर्वपुरुषार्थसाधनत्वाघोगस्य तत्राप्रमत्ततया भवितव्य- मित्यर्थः ॥ ११ ॥ स्पष्टोऽर्थः । प्राणवादे “ सप्तगतेर्विशेषितत्वाच्च " ब्र०सू० २।४।५