पृष्ठम्:काठकोपनिषत्.djvu/११२

एतत् पृष्ठम् परिष्कृतम् अस्ति

२।३।१९ काठकोपनिषत् ९० तेजस्वि नावधीतमस्तु [ शांकरभाष्यम्] कः स एव परमेश्वर उपनिषत्प्रकाशितः । किंच सह नौ भुनक्तु तत्फलप्रकाशनेन नौ पालयतु । सहैवावां विद्याकृतं वीर्य सामर्थ्ये [प्रकाशिका] भवतीति भावः । नावावयोर्यदधीतं तत्तेजस्व्यस्तु। वीर्यवत्तरं भव- त्वित्यर्थः । "यश्चाधर्मेण विब्रूते यश्चाधर्मेण पृच्छति । तयोरेकतरः प्रैति विद्वेषं चाधिगच्छति॥” इतिस्मत्युक्तरीत्याधर्माध्ययनाध्यापननिमित्तो द्वेष आवयोर्मा भूदित्यर्थः । त्रिर्वचनं दोषशान्त्यर्थम् । इयं चोपनिषद्भगवत्परैवेति भगवता बादरायणेन समन्वयाध्याये त्रिभिरधिकरणैर्निर्णीतम्। तत्र “यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः " क० १।२।२५ इतिवाक्ये ब्रह्मक्षत्रिययोरोदनत्वनिरूपणेन भोज्यत्वस्य वा भोग्य- त्वस्य वा प्रतीतेस्तत्प्रतिसंबन्धी यस्येति षष्ठयन्तयच्छब्दनिर्दिष्टो भोक्ता जीव एव स्यात्परमात्मनो भोक्त्तृत्वासंभवादिति पूर्वपक्षं कृत्वा " अत्ता चरा- चरग्रहणात्” “प्रकरणाच्च” “गुहां प्रविष्टावात्मानौ हि तद्दर्शनात्’ “विशे- षणाच्च" ब्र० सू० १।२।९।१०।११।१२ इति चतुर्भिः सूत्रैः सिद्धान्तः कृतस्तेषां चायमर्थः । उभे भवत ओदन इत्योदनप्रतिसंबन्धितया प्रतीय- मानोऽत्ता परमात्मैव, ब्रह्मक्षत्रशब्दगृहीतनिखिलचराचरसंहर्तृत्वस्यात्र मन्त्रे प्रतिपादनात् । अत्र ब्रह्मक्षत्रशब्दयोर्निखिलचराचरलक्षकत्वप्रकार ओदनश- ब्दस्य विनाश्यत्वलक्षकत्वप्रकारक्ष्चैतन्मन्त्रव्याख्यानावसरे दर्शितस्तत्रैवानु- संधेय । “ महान्तं विभुमात्मानम् ' क० .१।२।२२ इति प्रस्तुतत्वेन तस्य ब्रह्मप्रकरणमध्यगतत्वाच्च । ननु ऋतं पिबन्तावित्युत्तरमन्त्रे कर्म- फलभोगान्वयिनोरेव प्रतिपादनात्परमात्मनश्च जीववत्कर्तृत्वेन वान्तःकरण- वत्करणत्वेन वान्वयासंभवात्परमात्मप्रकरणमध्यगतत्वं नास्तीत्याशङ् क्योक्तं गुहां प्रविष्टावात्मानौ हि तद्दर्शनादिति । गुहां प्रविष्टौ जीवपर- मात्मानावेव । तयोरेवास्मिन्प्रकरणे गुहाप्रवेशदर्शनात् । " तं दुर्दर्शं गूढ- मनुप्रविष्टं गुहाहितम् " क. १।२।१२ इति परमात्मनो गुहाप्रवेशः श्रयते " या प्राणेन संभवत्यदितिर्देवतामयी। गुहां प्रविश्य" क. २।१।७ इति जीवस्यापि गुहाप्रवेशो दृश्यते । अतो द्वयोरपि गुहाप्रवेशदर्शनात्तयो- रेव पिबदपिबतोश्छत्रिन्यायेन ऋतं पिबन्ताविति निर्देशस्य संभवात् । ऋतं पिबन्ताविति मन्त्रेण न परमात्मप्रकरणविच्छेदः शक्यशङ्कः । विशे- घणाञ्च । । अस्मिन्प्रकरणे " ब्रह्मजज्ञं देवमीड्यं विदित्वा " क. १।१।१७