पृष्ठम्:काठकोपनिषत्.djvu/१२१

एतत् पृष्ठम् परिष्कृतम् अस्ति

९९ काठकोपनिषद्भाष्यद्वये १।१।३ नान्तदक्षिणाशब्देन पूर्वोक्तन्यायेनोक्तावपि कर्मणः कर्तृणामृत्विजां बहुत्वा- तदपेक्षया प्रवर्तमानस्य भृतिशब्दस्य दक्षिणासु ' इति बहुवचनान्ततया प्रयोगोऽपि नासंगतः । ऋत्विग्भेदापेक्षया दक्षिणाभेदो भवतीत्यत्रोपोटूल- कमाह--अतएवेत्यादिना । " यदि ब्रह्मणस्तदूनं तद्विकारः स्यात् " जै. सू. १०।३।७।१ इति सूत्रघटितं षट्सूत्रात्मकं यदधिकरणं तन्त्रिधा याख्यातं शबराचार्यैः । तत्र द्वितीयं यव्द्याख्यानं तदेकतापक्षमालम्ब्यात उच्यते-एकवाक्यतापक्ष इति । अवयवलक्षणामन्तरेणेति । षोडशानामृ- त्विजामन्यतमस्य ब्रह्मणो या दक्षिणत्यवयवरूपलक्षणामकृत्वापि । ब्रह्म भागे मुख्यवृत्यैव सिद्धेः । तन्मात्रबाध इति । ब्रह्मसंबद्धदक्षिणांशस्य निवृत्तिः । अन्येषामृत्विजां विषये यद्यप्यवयवलक्षणा स्वीकृता तथापि ब्रह्माख्यस्य ऋत्विजः संबन्धिनि दक्षिणाशब्देऽवयवलक्षणामकृत्वाप्युपप- त्तिरिति भाव । एकवाक्यतापक्षात्मकमिदमधिकरणं माधवाचार्यैरित्थं प्रदर्शितं जैमिनीयन्यायमालायाम्-" पूर्वोक्तनिर्णयं पूर्वपक्षयित्वैकवाक्य- ताम् । भ्रान्त्या कृत्वा दक्षिणांशं ब्रह्मभागं निवर्तयेत् ॥ श्यावाक्ष्वाधिकरणे ’ रुक्मललाटो दक्षिणा' इत्यस्य स ब्रह्मणे देय इत्यस्य चान्तराले स ह्यनि- रुक्त इति वाक्यान्तरं पठितम् । तेन व्यवधानाद्विस्पष्टो वाक्यभेदः । इह त्वव्यवधानादेकं वाक्यमिति भ्रान्तिः । एकवाक्यतायां तु चमसशब्दस्य दक्षिणाशब्देन ब्रह्मशब्देन च संबन्धे सति कृत्स्नदक्षिणायाः पुरुषान्तर- स्य च निवृत्तिः । तथा सति पूर्वोक्तसिद्धान्त एवात्र पूर्वपक्षीभवति । दक्षिणामुद्दिश्य चमस एको विधेयः । तस्य ब्रम्हसंबन्धोऽपरो विधेयः । ततोऽर्थभेदाद्वाक्यभेदो दुर्वारः । तस्माद्दक्षिणाशब्देन तदंशं लक्षयित्वा ब्रम्हसंबद्धदक्षिणांशमनूद्य चमसमात्रविधानात्तद्भागस्यैव निवृत्तिः । अत्र सिद्धान्तप्रतिपादनेऽन्येषामृत्विजां दक्षिणाया अबाधेन ब्रह्मदक्षिणाया एव बाधस्य बोधनादृत्विग्भेदाद्दक्षिणाभेद इति सिद्धं भवति । सिद्धमाह--तत- श्रेतेि ॥ २ ॥ १ । १ । ३ [ शाङ्करभाष्यम्] पीतमुदकमिति । पूर्वमेवोदकं प्राशितं ततः परमृ- त्विग्गृहगमनानन्तरं ता गावः कदापि जल न पास्यान्त सामर्थ्याभावात् । एवमेव तृणभक्षणस्य दुग्धदानस्यापि च न सामर्थ्यम्। अप्रजननसामर्थ्या:- प्रजननं प्रसवस्तत्रासमर्थाः [प्र.४] निष्फला इति। त्रिविधं हि गवां फलम् ।