पृष्ठम्:काठकोपनिषत्.djvu/१२३

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०१ काठकोपनिषद्भाष्यद्वये १।१।८ [ प्रकाशिका ] [पृ.५]त्रऋत्विग्भ्य इति । पित्रा याजकान्प्रति मम समर्पणं क्रियेत चेद्यथा तेषां प्रेषणादिकार्यनिर्वाहार्थं ममोपयोगः स्यात्तथा मया यमस्य किं कार्यं निर्वाहेत पूर्णकामत्वात्तस्येति चिन्ता नचिकेतसो मनसि पदं चका- रेत्यर्थः ॥ ॥ १ । १ । ६ । [ शाङ्करभाष्यम् ] प्रेषणमनिच्छन्तं पितरं नचिकेता ब्रूते-पूर्वजवृत्तानु- सारं सत्यपालनं कुर्विति तदाह श्रुतिः—अनुपश्येत्यादिना । निभालय- दीर्घालोचनं कुरु । सस्यमिवातेि । यथा सस्यं फलाधिगमानन्तरं रसवियुक्तं सन्नश्यति तथा मनुष्योऽपि वृद्धावस्थां प्राप्य म्रियत इत्यर्थः । न केवलं जरामरणे तस्य किन्तु जनिरपीत्याह-मृत्वा चेति । सस्यामिवेति । वर्षासु वृष्टिसितं सस्यं यथा प्रादुर्भवति तथा संचित्कर्माभिमुख्ये मनुष्योऽपि देहान्तरं लभत इत्यर्थः । एवं पुनर्जन्म मरणं चातोऽसत्यकरणेन न किञ्चि- त्फलामिति भावः । मां यमाय प्रेषय तदन्वात्मनः सत्यं पालयेत्यन्वयः॥६॥ १ । १ । ७ । [ शाङ्करभाष्यम् ] [पृ.६ ] श्रुत्यानुक्तं पूर्वभाषणादिकं कथायामपेक्षितं पूरयति स एवामिति । प्रोषिते ब्रह्मभवनं गते अमात्याः-अमा समीपे भवाः सचिवादयः । यतः सन्तस्तस्याग्रेर्दाहं शमयन्त इवातिथेरेतां पाद्यासनादि- लक्षणां शान्तिं कुर्वन्त्यत इत्यन्वयः । श्रूयत इति । यस्याग्निहोत्रमित्या- दिक्ष्रुतौ यतश्चेति चकारेण शिष्टाचारोऽप्यतिथिपूजायां द्योत्यते ॥ ७ ॥ [ प्रकाशिका ] द्वास्था इति । द्वारि तिष्ठन्ति ते द्वारपाला यामिकाः । तदपचारेणेति । तस्याग्निरूपातिथेरपचारेण पूजनाभावानिमित्तेनापराधेन ७ १ । १ । ८ । [ शाङ्करभाष्यम् ] पूजाया अकरणेऽनिष्टप्राप्ति बोधयन्ति भार्यादयः– अनिर्ज्ञातेत्यादिना । अनिर्ज्ञातोऽत्यन्तमज्ञातः प्राप्यः प्राप्तुं योग्यो हेमाच- लादिस्तस्य प्रार्थना हेमाचलो मे भूयादितीच्छा आशापदवाच्या । तथा नि- र्ज्ञातः प्रत्यक्षादिना नितरां ज्ञातः प्राप्योऽर्थो राज्यादिर्यस्याः सेच्छा प्रती- क्षापदवाच्या । इष्टं च पूर्तं च । पूर्वपदीर्घः। यागजं—पितृलोकादि। तदुक्त- वापीकूपतडागादिदेवतायतनानि च । अन्नप्रदानमारामाः पूर्वमथ्र्याः प्रचक्षते। एकाग्निकर्म हवनं त्रेतायां यञ्च हूयते । अन्तर्वेद्यां च यद्दानमिष्टं तदभिधीयते ॥