पृष्ठम्:काठकोपनिषत्.djvu/१२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

१।१।११ बालबोधिनी १०२ इति । सर्वास्ववस्थासु-कष्टावस्थासु । अपिशब्दात्स्वस्थावस्थायां किमु वक्तव्यमिति कैमुतिकन्यायो द्योत्यते ॥ ८ ॥ [प्रकाशिका][पृ.६]रुधादित्वाच्छूनमिति । अस्य धातोः परस्मैपदित्वाद्र्ड्क्त इति रूपासिद्धिं मत्वा गत्यन्तरमाह-वृजि वर्जन इति । अयमपि दीर्धा- कारेत्संज्ञकस्तथापि केषांचिन्मतमादृत्येयमुक्त्तिः । शपो लुग्वेति । “ अदिप्र- भृतिभ्यः शपः" पा. सू. २ । ४ । ७२ इत्यनेन ॥ ८ ॥ १ । १ । ९ [ शाङ्करभाप्यम्][पृ.७]अनशनेनेति । अनशनपूर्वकमित्यर्थः। तत्प्राप्त्युश- मेनेति । दोषप्रातिनिरासद्वारेत्यर्थः । त्वदधिकसंप्रसादनार्थमिति । यद्यपि त्वदनुग्रहेणैव सर्वं मम संपन्नं तथापि तवाधिकं प्रसादनं प्रसन्नता तदर्थम् । एकैकां रात्रिं प्रतीति । निवासाधिकरणीभतामेकैकां रात्रिं प्रत्यकैको वर इति समुञ्चित्य वरत्रयमित्यर्थः ॥ ९ ॥ [ प्रकाशिका ] [पृ.७]लिप्साभावेऽपीति । लब्धुमिच्छा लिप्सा तदभा- वेऽपीत्यर्थः ॥ ९ ॥ १ । १ । १० [ शाङ्करभाष्यम्] दित्सुः-दातुमिच्छुः । शांतसंकल्प इति । शान्तो यमं प्राप्य किं मम पुत्रो विधास्यतीति संकल्पो विचारो यस्य । यमालयं गत्वा किं मम पुत्रस्य स्यादिति चिन्तावानित्यर्थ । मृतो यमादागतोऽयं द्रष्टुमनई इति मत्वोपेक्षां यथा न कुर्यात्तथा वरं देहीत्याह--किंच त्वत्प्रसृ- ष्टमिति । यात्पितुः पारितोषणमित्यस्यैतत्प्रयोजनमित्यादिना संबन्धः । एतत्प्र- योजनमिति बहुव्रीहि ॥ १० ॥ [ प्रकाशिका ] अभीत्युपसर्गस्य वदधातुना साकं संबन्ध इति द्योत- यति- यद्वेति । नन्वभिपूर्वकवदधातोराशीर्वादार्थे प्रयोगे किं मानमित्यत आह-अभिवदतिनेति । अभिवदतिना-अभिपूर्वकवदधातुना। 'इक्शितपौ धातुनिर्देशे ' का. वा. इत्यनेनायं श्तिपः प्रयोगः ॥ १० ॥ १ । १ । ११ [शाङ्करभाष्यम्][पृ.८]भावितेति । भविष्यतीत्यर्थः । प्रतीतवान्-प्रत्य- भिज्ञावान् । व्घमुष्यायणो वेति । उद्दालक एवौद्दालकिरित्यत्र स्वार्थिक इब्प्रत्ययो दर्शितः । अपत्यार्थेञ्प्रत्ययं गृहीत्वेदं व्याख्यानम् । ननूद्दालक- स्यारुणस्य च कथमेकमपत्यमिति चेन्न । व्द्यामुष्यायणत्वेन तत्सिद्धेः ।