पृष्ठम्:काठकोपनिषत्.djvu/१३४

एतत् पृष्ठम् परिष्कृतम् अस्ति

१।१।१९ बालबोधिनी ११२ बध्यमानोऽप्यविधीयमानो न समीपवचनमात्रेण फलवान् विज्ञायते । तस्मा- दनर्थको मा भूदिति स्वर्गस्य कर्तव्यता गम्यते । पुरुषप्रयत्नश्च यागविशिष्ट इति यागस्तस्य करणं स्यात् । तस्मात्सुष्टूतं यागो गुणभूतः स्वर्गः प्रधान- भूत इति ॥ ’ प्रत्यर्थे चाभिसंयोगात्कर्मतो ह्यभिसंबन्धस्तस्मात्कर्मोपदेशः स्यात्' ६।१।१।३ [ युक्तिसूत्रम् ] न केवलमानर्थक्यभयाद्यागस्य गुण- भावं ब्रूमः । किं तर्हि स्वर्गसंज्ञकमर्थ प्रति करणत्वेन यागो विधीयते । ननु यागः कर्तव्यतया श्रुत्या विधीयते । सत्यमेवम्, आनर्थक्यं तु तथा भवति स्वर्गं प्रत्यविहिते यागे, स्वर्गकामः तास्मिन्निष्फले विधीयमानेऽपि निष्प्रयोजनः स्यात्तत्रास्योपदेशवैयर्थ्यम् । द्वयोश्च विधीयमानयोः परस्परेणास- म्बद्धयोर्वाक्यभेदप्रसंगः । अतो न स्वर्गकामपदेन स्वार्थो विधीयते किं तर्हि उद्दिश्यते । तत्र वाक्यादवगतस्य कामस्य कर्तव्यतावगम्यते यागस्य च करणता । एवंच यागकर्तव्यतायां न प्रत्यक्षताविरोधो भविष्यति । तस्मा- त्कर्मोपदशेः स्यात् । कर्म स्वर्गं प्रत्युपदिश्यते न स्वर्गः कर्म प्रति । किमतो यदि स्वर्गो नोपदिश्यते । एतदतो भवति न ह्यनुपदिष्टोऽनर्थप्राप्तश्च गुणो भवति तस्मात्स्वर्गः प्रधानतः कर्म गुणतः । इति । अपिच यस्य स्वर्ग इष्टः स्यात्स यागं निर्वर्तयेत-इति मतं—ततः स्वर्गो भवतीति संबन्धादिदं गम्यते इति । न शब्दप्रमाणकानामन्तरेण शब्दमवगतिर्न्याय्या । वाक्यादेवा- स्मादिमं संबन्धमवगच्छामः । यथा काष्ठान्याहर्तुकामोऽरण्यं गच्छेदिति यदि ब्रूयात्,ब्र्यादेतत् दृष्टं तत्र प्रमाणान्तरेणारण्यगमनस्य काष्ठाहरणसामर्थ्यमिति। अथ मन्यते—उपदेशानर्थक्यं मा भूदित्यर्थापत्तिर्भविष्यतीति । उच्यते, नो पदेशानर्थक्यस्यैतत्सामर्थ्यं, यदन्तरेण फलवचनं यागस्य प्रीतिः फलमवग- म्येत । काममस्यानर्थक्यं भवतु न जातुचित्सामर्थ्यमस्य जायते । नहेि दग्धुकामस्योदकेोपादानमसति दाहेऽनर्थकमिति दहनशक्तिमस्य जनयेत् । अथवा स्वर्गकामस्य यागो विधीयत इति पक्षान्तरावलम्बनेनास्यार्थवत्ता भविष्यति । नन्वितरास्मिन्नपि पक्षे स्वर्गकामस्य यागो विधीयते न यागा- त्स्वर्गः । नैतदेवं तस्मन्खलु पक्षे स्वर्गं प्रार्थयमानस्यानुष्ठानमनूद्य यागस्त- स्योपायत्वेन विधीयते । इति न दोष । तदनुष्ठानं स्वर्गं प्रतीति नास्ति वचनामितिचेत् । इष्टमर्थं प्रत्यनुष्ठानं भवति, स्वर्गकामस्य च स्वर्ग इष्टः,तदनुष्ठा- नविशेषग्रहणार्थमेव स्वर्गकामविशेषणग्रहणमिति निरवद्यम् ।तस्मात्स्वर्गकामस्य यागकर्मोपदेशः स्यात् । अतः स्वर्गः प्रधानत: कर्म गुणतः । इति स्वर्गकाम-