पृष्ठम्:काठकोपनिषत्.djvu/१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यक्तपुरुषशब्दानां तत्तत्प्रत्ययेऽप्रसिद्धत्वादानुमानिकमनुमानगम्यं प्रधान मप्येकेषां शाखिनां प्रत्यक्षमव्यक्तशब्देन पठ्यत इत्यशब्दत्वमसिद्धमिति चेदिति पूर्वः पक्षः । सिद्धान्तस्तु न प्रधानम् । कुतः । शरीररूपकविन्य गृहीतेः । ‘शरीरं रथमेव तु' क. १॥३॥३ इत्यस्मिन्पूर्ववाक्ये शरीरस्य रथरूपकेण विन्यस्तस्य काल्पतस्याव्यकिशब्दन गृहातग्रहणा तच्छब्दग्राह्य शरीरमित्यत आह-दर्शयति च । कठोपनिषत्स्थः पूर्वापर वाक्यसन्दर्भ: पर्यालोच्यमान औचित्येन प्रकृतं शरीरमेवाव्यक्तग्राह्य दर्श यतीत्यर्थः ।१। एतस्यैवार्थस्य “सूक्ष्मं तु तदर्हत्वात् २ तदधीनत्वादर्थवत् ३ ज्ञेयत्वावचनाच ४ वदतीति चेन्न प्राज्ञो हि प्रकरणात् १५ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ६ महद्वच ७’ इति षड्भि: सूत्रैरधिकरणशेषभूतैर्वेि वरणं कृतम् । एतस्याधिकरणस्यायमेवार्थो रामानुजमाववल्लभाचार्येरपि स्वीकृतः । एवं चात्रोपनिषदि सांख्यमतस्पशे नास्तीति स्थितम् । तथा चात्रत्यसांख्यशब्दो वैदिकज्ञानपरम्तथैव व्याख्यातो भगवत्पूज्यपादेः । ८ विमतस्थलविमर्शः । अस्यामुपनिषदि बहुभिरेतद्देशीयैर्विदेशीयैश्च * राममोहनराय ििड श्रेमेन, पोले, वेबर, मूर, रेमॉड, गफ्, डॉयसन्, कोलबूक प्रभृतिभि पण्डितवरेण्यैर्बह पराक्रान्तम् । अहो वेदान्तवैभवम् । यत्र विदेशीया अपि स्वबुद्धिकौशलमुपयुञ्जते । एतैरन्यैश्च महाभागैर्यदनुकूलं निर्दिष्टं तद्विषये तदनुग्रहभरानूद्वा यानि तैर्विमतस्थलानि दर्शितानि तानि विमृश्यन्ते । १ कोलबूकमहाभाग इमामुपानपदं सामवद्वगता मनुते ब्रूते च शङ्कराचायैस्तथोक्तमिति । परमेतदसंगतम् । यतः सह नाववत्विति कृष्ण यजुर्वेदशान्तिघटितत्वान्मुक्तिकोपनिषदि कष्णयजुर्वेदोपनिषदां प्राथम्येन गृहीतत्वाचेयं कृष्णयजुर्वेद्गतैव । सामवेदशान्तिघटिता त्वियं कोलबूक महाभागेनापि नाधिगता । तथानिर्देशाभावान् । शङ्कराचार्येरस्याः सामवेद गतत्वमुक्तमिति तु सुतरामसंगतम् । यतस्तथा निर्देशो न दृश्यते भाप्य पुस्तकेषु । किंच भाप्यशरीर एव स्वयमाचायैः सह नाववत्वित्यम्या शान्तेरर्थ: प्रदर्शितः । तथैवायं कोलबूकमहाभागस्य प्रमाद् इति बेबरपण्डितेन कथ २ प्रथमाध्यायप्रथमवलयां १६-१८ इति मन्त्रत्रयं पश्चात्केन चिद्भन्थेऽन्तर्भावितं यतो मृत्युना प्रतिश्रुतं वरत्रयं न चतुर्थो वरः ।१।२॥३