पृष्ठम्:काठकोपनिषत्.djvu/१५०

एतत् पृष्ठम् परिष्कृतम् अस्ति

१।२।१ बालबोधिनी १२८ प्रेयःसाधनं यज्ञादिरूपं, इदं श्रेय:फलं मोक्षरूपं नित्यमिदं प्रेय:फलं स्वर्गरूपमनित्यमेतादृशं विवेचनं मन्दबुद्धीनां दुष्करम् । व्यामिश्रीभूते इवेति । व्यामिश्रतिलतन्दुलवत् । संमिश्रजलदुग्धयोर्तुग्धं हंसो यथा पृथक्करो- ति तथा धीरपुरुषः श्रेयः प्रेयसो विविनाक्ति । एतादृशधीरपुरुषः कश्चिदेवेह तेन बहूनां प्रेयस्येव प्रवृत्तिरित्याह- -अतो हंस इवेति । गुरुलाघवमिति । यज्ञादिकमनुष्ठाने महानायासः फलं चानित्यं दु:खघटितं ज्ञानाधिगमे त्व नायासो दुःखनिवृत्तिरानन्दावाप्तिश्चेतेि तारतम्यमिति भावः । धीरः-संकृत- बुद्धिः । हीत्यव्ययमवधारणे तदाह-श्रेय एवेति । मूलेऽभीत्युपसर्गस्य वणीत इति तिङन्तस्य च मध्ये प्रेयस इति प्रयोगो ’ व्यवहिताश्च’ पा. सू. १ । ४ । ८२ इति पाणिनिसूत्रात्साधुः । अभ्यर्हितत्वादिति । अज्ञानेनाभ्यर्हितत्वं तत्र । योगक्षेमादिति । अप्राप्तस्य प्रापणं योगः । प्रा- प्तस्य पारिरक्षणं क्षेमम् । योगश्च क्षेमश्चानयोः समाहार इति समाहारद्वन्द्वः २ [ प्रकाशिका ] [पृ. २६ ] अभीत्यस्यार्थमाह-अभ्यर्हितमिति । उप- चय –वाद्धिः ॥ २ ॥ १ | २ | ३ [ शांकरभाष्यम्] बुद्धिमत्ता-विवेचनशीलता । सृतिं—मार्गम् । मूढजन- प्रवृत्तामिति । मूढजनेषु प्रसूतामित्यर्थः । धनप्रायां-द्रविणप्रचुराम् ॥ ३ ॥ [ प्रकाशिका ] दुःखोदर्कत्वं-दुःखावसानत्वम् ॥ ३ ॥ १ । २ । ४ [ शांकरभाष्यम् ] [ पृ. २७ ] महतान्तरेणेति । भूवियतोरिव महद- न्तरं श्रेयःप्रेयसोरित्यर्थः । परस्परव्यावृत्तरूपत्वे हेतुमाह--विवेकाविवे- कात्मकत्वादिति । विघूचीति द्विवचनलोपश्च्छान्दसस्तदाह-विधूच्याविति । या चेति । अविद्या कर्मकाण्डे प्रसिद्धा । अविद्वद्बुद्धिप्रलोभिन:-अज्ञमनोव- शीकरणसमर्थाः । विच्छेदमिति । तवेति शेषः ॥ ४ ॥ [ प्रकाशिका ] [ पृ. २७ ] आहिताग्न्यादिगणे विद्याभीप्सितशब्दस्य पाठाभावं मत्वाह-छान्दसत्वाद्वेति । यड्लुगन्तस्य परस्मैपदित्वादाह- छान्दसमात्मनेपदमिति ॥ ४ ॥ १ | २ | ५ [शांकरभाष्यम् ] विद्यायां प्रवृत्तिसिध्द्यर्थमविद्याधिकारिणोऽधिक्षेपपूर्वकं दर्शयति-ये त्घितेि । संसारभाजः-संसारार्हाः । संसारभाजना इति पाठो