पृष्ठम्:काठकोपनिषत्.djvu/१५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

१।२।७ बालबोधिनी १३० मेवाभाग्यवत्त्वम् । असंस्कृतात्मानः—नित्यनैमित्तिकांदिभिरननुष्ठितैरसंस्कृत- बुद्धयः । न विजानीयुरिति । एवं चात्मा श्रोतुं ज्ञातुं च न लभ्यत इति भाव । अदुतवादिति । चिन्तामण्याद्याश्चर्यकृद्वस्तुसदृशोऽस्य वक्ता कदाचिदपि लभ्येत न वा लभ्येतेति भावः । अनुशिष्ट:-उपदिष्ट । ७॥ [ प्रकाशिका ] इत्युक्तारिति । भगवद्भीतासु । भगवद्वचनमेतत् ॥ ७॥ १ । २ । ८ [ शांकरभाष्यम् ] [ प. २९ ] अवरेण प्रोक्त इति । श्रुत्यन्तरे श्रोत्रियं ब्रह्मनिष्ठमित्याचार्यस्य ब्रह्मनिष्ठत्वेन वर्णनाच्छास्रव्युत्पत्तिरेव वक्त्तुर्न पर्याप्ता किन्तु ब्रह्मनिष्ठताप्यपेक्षते। प्राकृतबुद्धिनेति । प्राकृतेषु पुत्रपश्चादिषु बुद्धिर्ममत्वाभिमानबुद्धिर्यस्येत्यर्थ । वादिभिरिति । शून्यवादिव्य- तिरिक्त्तैः सांख्यादिभिरात्मास्तीति चिन्त्यते । शन्यवादिभिश्च स नास्तीति । कर्ता अशुद्ध इति सांख्यभित्रैर्वादिभिश्चिन्त्यते । वेदान्तिभिः सोऽकर्ता शुद्धो ब्रह्माभिन्नश्चेति चिन्त्यते । अनन्यप्रोक्त इति । अनन्यो ब्रह्मण सकाशादभिन्न आचार्यम्तेन प्रोक्त्तै । अपृथग्दर्शिना —अभेददर्शिना । प्रति- पाद्यब्रह्मात्मभतेनेति । बोध्यब्रह्मस्वरूपेण जीवन्मुत्तेनेत्यर्थः । सर्ववि- कल्पेत्यादि । सर्वे च ते विकल्पाश्च सर्वविकल्पास्तद्विषया गतयश्चिन्ताः प्रत्यस्तमिता लीना यस्मिस्तस्य भावस्तत्वं तस्मात् । आचार्यपदमध्या- हृत्यानन्यप्रोक्त इत्यस्यार्थान्तरमाह--अथवेति । अवगति:-ज्ञानम् । परा नि- ष्ठेति । अतः परं ज्ञातव्यं नावशिष्यत इति भावः । नान्तरीयकत्वादिति । अत्यावश्यकत्वादित्यर्थः । अगतिरिति पदच्छेदेनाचार्यपदाध्याहारेण च पक्षान्तरमाह--अथवेति । तदस्यहामिति । यथाचार्यस्य प्रतिपाद्यं ब्रह्माहमेवेति बुद्धिस्तथैव शिष्यस्य सा भवतीत्यर्थः । आगमानुसारमेवा- चार्येणापि बोधनीयं न स्वातंत्र्येणेति बोधयितुमागमवतेति पदम् । इतरथा- भेददर्शिनाचार्येण प्रोत्ते सति । अणीयानित्युपक्रमगतपदानुसारमतर्क्यमि- त्यस्य पुंलिङ्गत्वेन विपरिणामः कर्तव्य इति द्योतयति--अतर्क्य इत्यनेन । स्वबुद्ध्याभ्यूहेनेति । गुर्वाघुपदेशरूपसंस्काररहिता या केवला स्वबुद्धिस्त- याभ्यूह आरोपस्तेन तर्केणेत्यर्थः। ननु आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्य इति श्रतैौ मननस्य समान्नानात्कथं तर्कोऽपोद्यत इत्यत आह-केवलेनेति । श्रुतिसाहाय्यरहितेनेत्यर्थः । केनचित्-तार्किकेण । कुतर्कस्य निष्ठति । कुत्सितर्कः कुतर्क उत्प्रेक्षामात्रनिबन्धनस्तस्य निष्ठा कस्मिश्चिदपि विषये