पृष्ठम्:काठकोपनिषत्.djvu/१५३

एतत् पृष्ठम् परिष्कृतम् अस्ति

१३१ काठकोपनिषद्भाष्यद्वये १।२।८ परिसमाप्तिर्न कदाचिदपि विद्यत इत्यर्थः । सविस्तरमुपपादितं चैतद्भगव- त्पूज्यपादैः श्रीशंकराचार्यैः ’ तर्काप्रतिष्ठानात् ’ ब्र. सू. २।१।११ इत्यस्य याख्यानावसरे ॥ ८ ॥ (प्रकाशिका ) पाण्डित्यमात्रेत्यादि । केवलं पाण्डित्यमेव तद्दारा सभाजयादि च प्रयोजनं यस्यैतादृशं वेदान्तश्रवणं यस्य पुरुषस्य तेन । येन केवलं सभाजयादिनिमित्तमेव वेदान्तश्रवणमनुष्ठितमित्यर्थः । तदेकान्ति- नेति । एकान्तो निश्चयम्तन्निश्चयवतेत्यर्थः । तकगोचरमिति । केवल- तर्कगम्यं श्रुतिसाहाय्येनैव स गम्यत इत्यर्थः ॥ ८ ॥ १ । २ । ९ [शांकरभाष्यम्] अत इति । यतस्तकनधीनात । आत्ममतिः आत्मवि- षयिणी बुद्धि । [पृ.३०] आपनेयेत्याप्लृधातो रूपं न संभवत्याप्धातोरनी- यरेि प्रत्यये आपनीयेति भवितव्यमतोऽर्थान्तरमाह-नापनेतव्येति । अपोफ्सर्गपूर्वकस्य ’ णिञ् प्रापणे ’ इति धातो रूपम् । केवलतर्कस्यैव प्रतिषेधो नागमघटितस्येति बोधयति - तार्किको ह्यनागमज्ञ इति । यत्किचिदेवेति । परमेश्वरस्य निमित्तत्वमेव नोपादानत्वमिति । अन्येनेति । तार्किकादन्येनेति संबन्धः । सुज्ञनाय-साक्षात्काराथ । आप इति । आप्लृ- धातोर्लडन्तस्य रूपम् । वरदानोत्तरक्षण एव लप्स्यस इत्यर्थः । अवितथ- विषयेति । अवितथ आत्मा विषयेो यस्या: । बतेत्यनुकम्पायाम् । अनुकम्प- यन् नचिकेतसि दयां कुर्वन् । त्वादृगित्यादि । हे नचिकेतो यादृक्त्वं प्रष्टा तादृशः पुनर्मत्पुत्रः शिष्यो वा प्रष्टा भवतु । ईदृक्प्रक्ष्नो मत्घं रोचत इति भाव ॥९॥ [ प्रकाशिका ] [ पृ. ३० | सिपाधयिषिततयेति-साधयितुमिष्टतये- त्यर्थः । अप्रकम्प्या —लोभनीयवस्तुभिरविचाल्या ॥ ९ ॥ १ । २ । १० [ शांकरभाष्यम्] कर्मफलस्यानित्यतां जानन्नप्यहं बहुविधं कर्म कृतवान्। त्वं तु मया दीयमानं तत्फलमपि न गृण्हास्यतो मदपेक्षयाधिक बुद्धिमानसीति स्तौतीत्याह-पुनरपीति । निधिारिवेति । कामनाविषयत्व- गुणयोगाच्छेवधिशब्दः कर्मफलवाचक इत्यर्थः । ध्रुवशब्दार्थमाह--परमात्मा- ख्य इति । तेनेति । तेन चितेनाग्निना धर्माधर्मफलप्रदानेन प्राणिनां निया- मकत्वस्याधिकारो मया लब्धः । आपेक्षिकमिति । यद्यपि तद्यथेह कर्म-