पृष्ठम्:काठकोपनिषत्.djvu/१६२

एतत् पृष्ठम् परिष्कृतम् अस्ति

१।२।२२ बालबोधिनी १४० १ । २ । २२ [ शांकरभाष्यम्] विज्ञानफलमाह-नहीति । शोकोपपत्तिरिति । द्वैताभावादित्यर्थः ॥ २२ ॥

१ । २ । २३

[ शांकरभाष्यम् ] [ पृ. ४६ ] नायमात्मेति मूलमंत्र उत्तरार्धप्रथम- वाक्यस्यार्थद्वयम् । १ एष साधको यमेव स्वात्मानं श्रवणमननादिभि- वृणुते-श्रवणादिकालेऽपि सोऽहमित्यभेदेनैवानुसंधत्ते तेनैवात्मना लक्षणया तदनुग्रहेण पूर्वोक्तानुसंधानवता यथानुसंधानं स्वयं प्रत्यगात्मतयात्मा लभ्यते । २ अथवा एष प्रकरणप्रतिपाद्य आत्मान्तर्यामिरूपेणाचार्यरूपेण वा व्यवस्थितो यमेव साधकं वृणुतेऽनुगृण्हाति तेन परमेश्वरानुग्रहलब्धप्रत्य- ग्ब्रौक्यानुसैधानवता मुमुक्षुणा लभ्यः । केवलेनोति । गुरूपदेशरहितेने त्यर्थः । अधिकारिणा परमं तत्त्वमीश्वरानुग्रहाल्लभ्यत इति पिण्डितोऽर्थः ॥ २३॥ [ प्रकाशिका ] [ पृ. ४६ ] लक्ष्यत इति । आयुर्वै घृतामितिवत्सा- धने लक्षणां कृत्वेत्यर्थः । प्रवचनमध्यापनं तदर्थं पूर्वे प्रवचनकारिभि- र्मननं क्रियत इति तत्साधनं मननम् । समभिव्याहारः-समीपेोच्चारणम् । हेतुत्वाप्रसक्तश्चेति । श्रवणादिवदध्यापनस्य ब्रह्मज्ञानसाधनत्वेन कुत्रा- प्यनुक्त्तत्वात् ॥ २३ ॥ १ ॥ २ ॥ २४ [शांकरभाष्यम्] दुश्चरितं—कायिकं पापम् । इन्द्रियलौल्यं—विषयप्रव- णता । विषयेभ्य इन्द्रियाणां प्रत्याहारे पुण्यलोकादि फलं श्रूयते ततोऽपि समाहितचेतस्त्वमपेक्ष्यते तदाह-समाहितचित्त इति ॥ २४ ॥ [ प्रकाशिका ] नाविरतो दुश्चरितादित्यादिना दुश्चरितविरामादिक- मुपासनाया अङ्गं विधीयते । अङ्गानुष्ठानेन विनांगिन्या उपासनाया न सिद्धिः । अङ्गापूर्वजननपूर्वकमेवाङ्गिनोऽपूर्वमुत्पद्यत इति प्रसिद्धम् । ननु दुश्चरिताविरत्यादयः पुरुषार्था एव नोपासनाथेतया तदङ्गभूता इति चेन्न । यत: पूर्वतन्त्रे तृतीयाध्यायचतुर्थपादगते अकर्म १।४।१२ इत्यादिद्वादशे सूत्रे शाबरभाष्ये दर्शपूर्णमासयोराम्नायते ‘नानृतं वदेत्’ इति विषयवाक्यमादृत्य पूर्वपक्षादिविचारं कृत्वैवं निर्णीतं यदनृतभाषणनिषेधो यद्यपि पुरुषार्थ- स्तथापि दर्शपूर्णमासक्रत्वङ्गः । एवं च पुरुषार्थनिषेधमुल्लड्ध्य यदि कश्चिद- नृतं भाषेत तर्हि तस्य दर्शपूर्णमासक्रतुर्विकलो भवेत्तद्वदेव पुरुषार्थमपि