पृष्ठम्:काठकोपनिषत्.djvu/१७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५३
२।१।१०
काठकोपनिषद्भाष्यद्वये

अविवेकिनमिति । अविवेकेिदृष्टया भासमानं नतु वास्तवमित्यर्थः । अमुत्र-कारणोपाधौ । तत्र-जीवेश्वरोपाध्योर्मध्ये । एवं सति--तद्रतचैतन्यै- कत्वे सति । उपाधिस्वभावभेददृष्टिलक्षणयेति । उपाधिस्वभावश्च भेद- दृष्टिश्च तौ लक्षणं स्वरूपं यस्यास्तया । अन्तःकरणाघुपाधेर्भेददृष्टेश्चानिर्वा- च्याविद्यां विनात्पत्तेरसभव इति भावः । [ पृ. ६६ ] प्रतिपद्यत इति । यथा स्वप्ने नानात्वस्वभावरहिते ब्रह्माणि नानात्वमध्यारोप्य सत्यत्वाभिनि- वेशेन व्यवहार । सच मिथ्याभूतोऽतः पुनः पुनर्जन्ममरणप्राप्तिरज्ञानिन इत्यर्थः ॥ १० ॥ [ प्रकाशिका ] देशान्तरव्यावृत्तयेति । अन्यदेशे नास्मि किन्त्वत्रैव वर्त इत्यर्थः । [ पृ. ६६ ] तत्त्वज्ञातत्वज्ञदृष्टयोभयथापि पूर्वोक्तदशंकाया अनवकाश इत्याह--अयमभिप्राय इति । ज्ञानिनां सर्वदेशकालवर्तिपदार्था- नां बाधिकाहमिहैवेति प्रतीतिर्न संभवति तेषां सर्ववस्तुवर्तित्वेनाहमिहैवेति प्रतीतेरभावात् । अज्ञानिनामपि सा न । तद्दृष्टयाहंपदेन जीवस्यैवैकदेशव- र्तिनो ग्रहणात् ॥ १० ॥ २।१।११ [ शांकरभाष्यम् ] नन्वेकरसे ब्रह्मणि ज्ञातृज्ञेयविभागः कथमिति चेदज्ञं प्रति तस्य कल्पितत्वादित्याह-प्रागेकत्वविज्ञानादिति ॥ ११ ॥ २|१|१२ [ शांकरभाष्यम् ] अङ्गुष्ठपरिणामं जीवमनूद्य ब्रह्मभावो विधीयतेऽनेन वाक्येन ततश्च विधीयमानं यद्रह्म तस्य विरोधः । ब्रह्मणः सर्वव्यापि- त्वात्तस्यांगुष्ठपरिमाणकेन जीवेनैक्यासंभवादिति शंका स्यात्तामपाकर्तुं जीवस्याङ्गुष्ठमात्रत्वमविवक्षितं वाक्यं तु ब्रह्मपरमेवेत्याह-पुनरपीति । अङ्गुष्ठमात्रवंशेति । अङ्गुष्ठपरिमाणं वंशस्य वेणुवृक्षस्य यत्पर्व तन्मध्य- स्थाकाशवत् । वेणुमध्यस्थाकाशस्योपाधिना यथा पर्वपरिमाणत्वं तथान्तः- करणोपाधिना जीवस्याङ्गुष्ठपरिमाणत्वमित्यर्थः ॥ १२ ॥ [ प्रकाशिका ] [ पू. ६७ ] जीवपरोऽयं मन्त्रः स्यादिति शङ्कते- नान्विति । कालत्रयवर्तिपदार्थानां नियमनं जीवे न संभवत्यतो न जीवग्र- हणमिति शङ्कां निरस्यति पूर्वपक्षी-न चेति । प्रथमश्रुतस्येति । अयं हि मीमांसकानां सिद्धान्तः । यदुपक्रमोऽसंजातविरोधी भवति । तत्रान्यस्यार्थसं- कोचकारिणो लिङ्गस्य प्रवृत्त्यभावात् । एवं चोपक्रमे यथाश्रुतोऽर्थः प्रतिषत्त- का.-२०-२१