पृष्ठम्:काठकोपनिषत्.djvu/१७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

१५५ काठकोपनिषद्भाष्यद्वये २।१।१२ वाक्ये ईशानपदं योगरूढं तद्रूढया रुद्रस्य बोधकं, योगेन यस्य कस्यचिदी- शितुर्बोधकम् । समीपस्थं पदं भूतभव्यस्येति । तत्र भूतभव्यस्येशनकारित्वं वैष्णवमतेन रुद्रे न संभवत्यतः समीपस्थेन भूतभव्येतिपदेनेशानशब्दस्य रुद्र- रूपो रूढोऽर्थस्त्याज्यते । यौगिक ईशनकर्तृत्वरूपो ग्राह्यते चेति [पृ.६८] न श्रुतित्वमिति । अतः केवलेशानशब्दो न परमेश्वरग्राहकः किन्तु भूत- भव्यस्येतिपदघटितेशानशब्द इत्यर्थ । समाधानान्तराश्रयणात्पूर्वसमाधानं न वरमिति व्यासार्यमतेऽपि सिध्यतीत्याह -यद्वेति । अतिचर्चयेति । स्वकृतोपनिषव्द्याख्यानसमये सूत्रभाष्यव्याख्यानस्य व्यासार्यकृतस्य युक्तायु- त्वविचारणारूपा चर्चातिचर्चेति भावः । स्वविषयमतिक्रम्य चर्चातिचर्चेति पदार्थ: ॥ १२ ॥

२ । १ । १३

[ शांकरभाष्यम् ] [पू. ६८ ] नायमस्तीति चैक इति द्वितीयपक्षस्यो- तरभूतमिदं वाक्यमाह--किंचेति । ज्योतिष्परत्वादिति । ज्योतिःशब्दस्य नपुंसकलिङ्गत्वेन तद्विशेषणत्वादिदमधूमकमित्यपेक्ष्यत इति भावः । कूटस्थ इति। कृटं गिरिशृंगं तदिव तिष्ठतीति चिरं वर्षातपयोविद्यमानं गिरिश्रृंगं विकारं न लभ्यते न वा क्षीयते यथा तथा ब्रह्मसेत्यर्थः । न्यायत इति । कृतहा- नाकृताभ्यागमप्रसंगरूपन्यायात् । क्षणभंगवादक्ष्चेति । बौद्धसंमतोऽयं वादः ॥ १३ ॥ २ । १ । १५ [ शांकरभाष्यम् ] [ प. ६९ ] कुतार्किकेत्यादि । कुतार्किका आ- त्मभेदं बोधयंति । आत्मा द्विविधः । जीवात्मा परमात्मा चेति । परमात्मा त्वेक एव । जीवात्मानस्त्वनंता इति तार्किकमतम् । ततस्तदनुसरणाद्विपरीत- भावना । नास्तिकाश्चार्वाकादयो नास्त्यात्मेति बोधयंति ततोऽसंभावना । एवमुभे असंभावनाविपरीतभावने वेदेन निराक्रियमाणे नानुसर्तव्ये इति भाव ॥ १५ ॥ अथ कठोपनिषदि द्वितीयाध्याये द्वितीया वल्ली ॥ २ । २ । १ [ शांकरभाष्यम् ] प्रकारान्तरेणेति । उपायान्तरेण तदेव ब्रह्मतत्त्वं बोध्यते । उपायभेदेऽपि प्राप्यवस्तुनो न भेदः किन्त्वेकत्वमेवेति भावः । असंहतराजेत्यादि । पुरेणासंहतो यो राजादिः स्वामी तदर्थं यथा तत्त-