पृष्ठम्:काठकोपनिषत्.djvu/१८४

एतत् पृष्ठम् परिष्कृतम् अस्ति

२।२।१५ बालबोघिनी १६२ धानमिति चेदर्जुनादीनां बद्धानामेव कृष्णादिसाक्षात्कार इत्याह पूर्वोत्तर- पक्षाभ्यां-बद्धानामित्यादिना । वस्तुतस्त्वर्जुनादीनां बद्धानां साक्षात्कार: शास्त्रविरुद्ध इति मत्वाह-यद्वेति । कालिदासकवेराधिककवित्वगुणवत्वादि- तरकबेः कुकवित्वमकवित्वं तदभाव इतरोऽपि कविरेव । ‘उदिते तु सहस्रां- शौ न शशाङ्को न तारकाः’ इतिवत्। [पृ.७८ ] उत्तरार्धस्यार्थान्तरमाह- यद्वेति । अतो याचितकेत्यादि । लौकिका हि विवाहादिप्रसङ्गेऽन्येभ्यो भूषणादिकमादाय स्वशरीरं भूषयन्ति तद्यथा भूषणभूषितशरीरं न भात्यन्य- स्वामिकभूषणभूषितत्वात्तद्वत्सूर्यादीनां तेजो न भाति ब्रह्मस्वामिकत्वात्तते- जसः । याचितकं याचनयानीतं ’ याञ्चयाप्तं याचितकम्' इत्यमरप्रामाण्या- त् । तेन मण्डिता भूषिता ये पुरुषास्तैस्तुल्या आदित्यादय इति भावः॥१५॥ अथ काठकोपनिषदि द्वितीयाऽध्यायस्य तृतीया वल्ली । २।३।१ [ शांकरभाष्यम् ] [ पृ. ७८ ] तूलावधारणेनैवेति । शाल्मल्यादि- तूलावधारणेन यथा तन्मूलावधारणं क्रियते तथात्र संसाररूपवृक्षावधारणेन तन्मूलं ब्रह्म ज्ञायत इत्यर्थः । वाचस्पत्ये तूलशब्दस्यैवमर्थ प्रदृर्श्य गुणोऽ पि दर्शित । तथाहि-तूलशब्दोऽश्वत्थाकारे तूलवृक्षे ( पार्श्वपिप्पल इति ख्याते ) भावप्रकाश-तूलं पकं गुरु स्तंभि हिमं पित्तानिलापहम् । तदे- वामं सुमधुरं संशोषि रक्तपित्तत्दृत् ॥ एवंच तूलशब्दः शाल्मल्यादिका- र्यवाचक । कार्पासो यथा फलनिर्गतत्वाद्रृक्षकार्य तद्वत्संसाररूपं कार्यं ब्रह्म- मूलस्य । ततश्च कार्थद्योतकस्तूलशब्दः । मूलाविद्याप्रतियोगिभूतेन तूलाविद्या- शब्देन कार्यस्यैवाभियुक्तग्रन्थे द्योतितत्वात् । लौकिकवृक्षतो वैलक्षण्यामाह- ऊर्ध्वमूल इति । व्रत्रश्चनादिति । “ ओव्रक्ष्चू छेदन ' इति धातोर्वृक्ष इति रूपम् । दात्रेण लौकिवृक्ष इवायं ज्ञानेन छेद्य इत्यर्थ । जन्मजरेत्यादि । जन्मादयो येऽनेकेऽनर्थास्तदेवात्मा स्वरूपं यस्येत्यर्थः । जन्माद्यनर्थातिरीक्तं संसारस्य स्वरूपमेव नेत्यर्थः । अन्यथास्वभावः–विपरीतस्वभावः । एतेन चंचलत्वं द्योतितम्। मायेत्यादि । माया-ऐन्द्रजालिकविद्या । मरीच्युदकं- मृगजलम् । यतः सूर्यकिरणसंबन्धाद्वालुकादि जलवद्भासतेऽतस्तन्मरीचिज- लमुच्यते । गन्धर्वनगरमितिपदेन सायंकाले चंचलस्वभावा य आकाशे मे- घादिसंनिवेशा दृश्यन्ते तेषां ग्रहणम् । दृष्टनष्टस्वरूपादिति । आदौ दृष्ट पश्चान्नष्टं स्वरूपं यस्येति । दर्शनसमय एव प्रतीयमानमित्यर्थः । अवसान