पृष्ठम्:काठकोपनिषत्.djvu/१८७

एतत् पृष्ठम् परिष्कृतम् अस्ति

१६९ काठकोपनिषद्भाष्यद्वये २।३।१ हिंसाशमदमधृत्याद्यात्मगुणपाथेयपूर्णज्ञानोडुपे सत्सङ्गसर्वत्यागमार्गे मोक्षतीर एतस्मिन्महार्णवे प्रापतन्पतितवत्यः । इति ॥ १ ॥ २ । ३ । २ [ शांकरभाष्यम् ] ननु संसारकार्यस्य शून्यतापर्यन्तः नाशादसत्पूर्वक- मेव जन्म तेन च मूलरहितोऽयं स्यादिति शङ्कते--यद्विज्ञानादिति । तन्नोति । मृगजलादेरसद्वस्तुनः समुत्पत्यदर्शनात्कार्यस्य सत्पूर्वकत्वप्रसिद्धे- श्चास्ति संसाररूपकार्यस्य सदात्मकं वस्तु मूलं तच्च प्राणपदलक्ष्यमित्युक्त- रार्थः । प्राणपदवाच्यं तु तन्न भवति प्राणवृत्तेरपि हेतुत्वात् । स्वात्मे त्यादि । आत्मपदेनान्तःकरणम् । स्वसंबन्ध्यन्तःकरणप्रवृत्तीनां साक्षिभूत- मित्यर्थः ॥ २ ॥ [ प्रकाशिका ] [पृ.६०] सप्तम्यन्तपदसामर्थ्यादिति । स्थितानामिति पदाध्याहारं विना प्राण इति सप्तम्या अनुपपत्तिरित्यर्थः । शांकरभाष्येतु प्राणे सति प्राणलक्ष्ये ब्रह्मणि विद्यमाने सतीत्यर्थः कृतः । स एव विवर्त- वादिमते साधुः । रामानुजीयमते वस्तूनां स्थितत्वं जगतः सत्यत्वात्संग- च्छते । विवर्तवादिमते तेषामसत्यत्वात्तथाध्याहारकारणमसंगतं स्यात् । केचित्वित्यनेन शांकरभाष्यधृतोऽर्थः प्रदर्शयेते ॥ २ ॥ २ | ३ । ४ [ प्रकाशिका ] [ पृ. ८१ ] विकरणव्यत्ययश्छान्दस इति । इह शरीरपतनात्प्राग्बोद्धुं शक्नुयाच्चेद्विमुक्तो भवेदिति संबन्धः । एवं च शक्नु- यादित्यस्य स्थानेऽशकदिति प्रयोगः । तत्र लकारव्यत्ययश्छान्दस इत्य- पेक्ष्यते । लिङः स्थाने लुङ्लकारश्छान्दसः । ’ हेतुहेतुमतोर्लिङ् ’ पा. सू. ३ । ३ ।१५६ इति सूत्रेण कृष्णं नमेचेत्सुखं यायादितिवत् लेिडो विधानात् । शक्नुवानित्यपपाठः । जन्मजरेत्यादि । जन्मजरादियुक्तत्वमेव विशीर्य- माणत्वमित्यर्थः ॥ ४ ॥

। २ । ३ । ५

[ प्रकाशिका ] चन्द्रिकाया इति । आदर्शमालिन्ये प्रकाशाभावादि- त्यर्थः । प्रकाशविशिष्ट एवादर्शो गृझेत तेन स्पष्टावयवप्रतिपत्तिः स्यादिति मत्वार्थान्तरमाह-यद्वेति । पूर्वाभिमुखस्य द्रष्टुर्मुखप्रतिबिम्बमादशें पश्चिमा- भिमुखं भवति । एवं चादर्शस्थं प्रतिबिम्बं कल्पितार्थघटितं भवति न तदनवरुद्धमघटितमित्यर्थः । सुलभमितीति । मुञ्जादिषीकोद्धरणमिवाना-