पृष्ठम्:काठकोपनिषत्.djvu/१९२

एतत् पृष्ठम् परिष्कृतम् अस्ति

२।३।१९ बालबोधिनी १७७ ककृत्यमिति । मूर्धन्यनाडीनिष्क्रमणार्चिरादिगमनं साधकेन स्वयं कर्तुमश- क्यं भगवानुपासनेन प्रीतः संस्तस्मिस्तादृशं सामर्थ्यमुत्पादयेत् ॥ १५ ॥ २ । ३ । १६ [ शांकरभाष्यम् ] शतं चैकेति मंत्रः प्रकरणविच्छेदेनोक्तो यतो ब्रह्म- वित्प्रकरणं प्रचलति । तत्र गतेः संभवो नास्ति । अत्र च शतं चैकेत्या- दिना गतिरुच्यते । अतोऽत्र प्रकरणभेदः कर्तव्यः । अतः प्राग्ब्रह्मप्रकरण- मस्मान्मंत्रादारभ्य मन्दब्रह्मवित्प्रकरणम् । अत्र भास्कराचार्यः प्रकरणाद्रह्म- विद्विषयैवेयं गतिरित्यंगीकरोति ताच्चिन्त्यम् । गतिश्रवणाल्लिंगान्मुख्यब्रह्म- विदो गतेश्च श्रुतौ निषेधात् । लिंगापेक्षया प्रकरणस्य दौर्बल्यं श्रुतिलिंगप्रकरण- स्थानसमाख्यानां पारदौर्बल्यमर्थविप्रकर्षात्’ जै. सू. ३ । ३ । ८ । १४ इति सूत्रेण सिद्धं मनसिकृत्याह—ये पुनर्मन्दब्रह्माविद इति ॥ १६ ॥ [ प्रकाशिका ] [ पू. ८८ ] देशविशेषाविशिष्टेत्यादि । मूर्धन्यनाडी- गत्या प्राप्यमाणो यो विशिष्टो वैकुण्ठादिदेशस्तत्स्थब्रह्मदर्शनपूर्वकं स्वस्वरू पाविर्भाव एवेयं मुक्तिः । सुषुम्नाभिन्ननाडीभिरुत्क्रमणे नानाविधा मनुष्यप श्वादिरूपयोनिप्राप्तिरूपा गतिस्तदाह--अन्यास्त्वित्यादिना ।दुर्विवेचतयेति। इयमेव सुषुस्रा नान्येति मरणकाले पृथक्कर्तुमशक्यतयेत्यर्थः । यादृच्छिकी- मिति । घुणाक्षरकाकतालीयवत्केनचित्सुषुन्ना गतिः प्राप्येत तदभिप्रायेणा- यमनुवाद इत्यर्थः। विद्वदविद्वत्वसाधारणमिति । द्वन्द्वान्ते श्रूयमाणत्वात्त्वप्र- त्ययस्य ’ तस्य भावस्त्वतलौ ’ पा सू. ५ । १ । ११९ इति विहितस्य भाववाचकस्योभयत्र संबन्धः । तेन विद्वत्वाविद्वत्वसाधारणमिति लब्धम् । ततश्चायमर्थः । हृदयाग्रप्रद्योतनमारभ्य मूर्धादिशरीरावयवनिष्क्रमणपर्यंतं विदुषोऽविदुषश्च गमनं समानम् । ततो विदुषो यद्वैलक्षण्यं तदाह-विद्वां स्त्विति । परमपुरुषेत्यादि । भगवदाराधनरूपा यात्यन्तं प्रियोपासना तद्व- लेन विद्वान् विद्याङ्गत्वेनात्यन्ताप्रियगतिं स्मरति ततः परमपुरुषस्य भगवतोऽ- नुग्रहः । ततोऽन्यैर्दूर्विवेचनीयापि सुषुम्नाख्यनाडी तेनोपासकेन लभ्यते ततश्च तस्योक्ता गतिः ॥ १६ ॥

२॥३॥१७

[ शांकरभाष्यम् ] [पृ. ८८] मुञ्जादिवेति । मुञ्जाख्यतृणमध्यस्थेषी- का तत्तृणगतयष्टिस्तत्पत्रेणातीवाविविक्ता भवति: तत्पृथक्करणमतीवैकाग्रतया साध्यं तथैव शरीररादात्मनः पृथकरणम् ॥ १७ ॥