पृष्ठम्:काठकोपनिषत्.djvu/१९४

एतत् पृष्ठम् परिष्कृतम् अस्ति

२।३।१९ बालबोधिनी १७२ प्रतियोगी । भोक्तत्यर्थः । छत्रिन्यायेनेति । छात्रिणो यान्तीत्यत्राछात्रि- णोऽपि छत्रिपदेन गृह्यन्ते तद्वदपिबन्नपि परमात्मा पिबत्पदेन गृह्यते । शक्यशङ्क इति । प्रकरणविच्छेदविषये शंका कर्तुं न शक्यत इत्यर्थः। [ पृ. ९१ ] उपासनाविधायिशास्त्रस्येति । खरतुरगादीनां हृदयं यद्य- प्यगुंष्ठप्रमाणाधिकं तथापि येऽत्रोपासनायामधिकारिणो यदर्थं चोपासना विहिता तेषां मनुष्याणां हृदयमङ्गुष्ठपरिमितं ततस्तदुपाधिद्वारा परमात्मनो ङ्गुष्ठमात्रत्वे न काप्यनुपपत्तिरित्यर्थः । हृदयावच्छेदनिबन्धनं-हृदयावच्छे- दमूलकं यदंगुष्ठप्रमितत्वं तत्र [ पृ. ९२ ] उपचारादिति । आयुर्वै घृत- मितेिवल्लक्षणयेत्यर्थः । मुख्यार्थबाधे लक्षणाया अङ्गीकार्यत्वान्मुख्यार्थबाध- माह-स्थूलशरीरस्यैवेत्यादिना। कापिलतन्त्रसिद्धोपादान इति । कापिल तन्त्रे सांख्यशास्त्रे सिद्धमङ्गीकृतं यदव्यक्तं तद्भहणं कुतो न क्रियत इत्यर्थः । तदनभ्युपगमादिति । परमात्माधीनतया तदनधिष्ठितत्वेन प्रयोजनवत्वस्या- नंगीकारात् । कापिलतंत्रोक्ताव्यक्ताग्रहणे हेत्वन्तरमाह-ज्ञेयत्वावचना- च्चोति । [ पृ. ९३ ] उपायोपेयोपेतृणामिति । उपायः साधनम् । उपेयः साध्यः । उपेता-साधकः । इति स्थितमिति । अयं सिद्धान्त इत्यथ ॥ १९ ॥ इति पाठकोपाव्हश्रीधरशास्त्रिकृता कठोपनिषच्छांकरभाष्यप्रकाशिका व्याख्या बालबोधिनी समाप्ता ॥ इति काठकोपनिषद्व्याख्याद्वयबालवोधिनी समाप्ता ।