पृष्ठम्:काठकोपनिषत्.djvu/२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ निर्गुणपरमेश्वरार्थकत्वात् । तथैवार्थकं व्याख्यातं गोपालयतीन्द्वैस्तत्र तत्र टीकायाम् । । तथाहि-‘वासयति भूतानि स्वस्मिन्निति वासुः स चासौ देवश्च दीव्यत इति स्वयंप्रकाशः स वासुदेव इत्यर्थः । अनेन तत्पदवाच्य मभिहितम् । अयमेवार्थोऽभिमत आचार्याणामन्यथा तत्रैव “पदं स्थानं सत्त त्वम्’ इति तद्भक्तिर्न संगच्छेत । ब्रह्मणः पर्यायत्वेन सगुणेश्वरस्य वासुदेव स्य निर्देशोऽपि विरुध्येत । २॥३॥१ इत्यत्र गोपालयतीन्द्रव्यख्यायामयं पाठष्टिप्पणीकारैगृहीत इत्युक्तं तेन टिप्पणीनाम्री काचिद्वयाख्या शाङ्कर भाष्यस्य स्यादिति प्रतीयते । अत्रैव मन्त्रे भाष्यकृद्भिः संसारवृक्षस्य रूप कमादृतं तत्कविकुलगविहन्तृ । नैतादृशं रूपकवर्णनं सामान्यकविजन १० प्रकाशिका । श्रीरङ्गरामानुजाचार्या महामीमांसका वैयाकरणाश्चासन् । यतोऽत्र तैर्बहवो मीमांसाव्याकरणनिर्देशा उद्धताः । केनोपनिषत्प्रकाशिकाया इयं प्रकाशिकातीव विस्तृता तत्रैतदेव निदानम् । यावच्छक्यं मीमांसानिर्देशै परिचिता भवन्तुच्छात्रा इत्यासीन्मतिरेषां तेन यथोत्तरपक्षस्य तथा पूर्वपक्ष स्याप्युपोडलकत्वेनैतैमीमांसानिर्देशा उदम्रियन्त । किंचैतस्याः प्रकाशिकाया विस्तारेऽन्यदपि कारणं यदेतैर्महाभागैः श्रीभाष्यस्य श्रुतिप्रकाशिकायाश्च पूर्वापरसंगतिर्विरोधाभावश्च प्रसंगमुत्पाद्य प्रदइर्यत इति । एतेन पूर्वापरसंग तिविरोधाभावप्रदर्शनेनैतदनुमातुं शक्यते यदेतेषां समये श्रीभाष्ये श्रुतप्रका शिकायां च भूयस्यो विप्रतिपत्तयः पण्डितमण्डलीगृह्यमाणा आसंस्ता अपा कर्तुमेतैर्महाभागैः कठोपनिषत्प्रकाशिकाकृतिरूपः प्रसंग उत्पादितः । तद्द्वारा पूर्वोक्तविप्रतिपत्तयः समाहिताश्चेति । अन्यथा कठोपनिषद्भाप्यव्याख्यायां सूत्रव्याख्यानरूपस्य श्रीभाप्यस्य तद्वयाख्यानभूतायाः श्रुतप्रकाशिकायाश्च पूर्वापरविरोधनिरासस्य कः प्रसंग: । १।१।१७ मंत्रे त्रिणाचिकेत इत्यस्य व्याख्यायां “त्रिणाचिकेतः– अय वाव यः पवत इत्याद्यनुवाकत्रयाध्याया इति योऽर्थः कृतः स पूर्वापरालोचनया न संगच्छते । अनुवाकत्रयाध्ययन स्य पूर्वमसम्बन्धात् । यतः पूर्व यमेन नचिकेतसे लोकादिरन्निरिष्टकास्तत्प्र माणं च १।१।१५ इत्यनेनोक्तम् । अनुवाकत्रयाध्ययनं तु नोक्तम् । तत परं १॥१॥१९ इत्यत्र । यो वाप्येताम्' इति मन्त्रोऽधिक एव व्याख्येयत्वे नाङ्गीकृतः । स च शाङ्करभाष्ये न गृह्यते । एतच रङ्गरामानुजाचायैरपि