पृष्ठम्:काठकोपनिषत्.djvu/२३

एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ कृष्णयजुर्वेदगतकठशाखोक्ता

काठकोपनिषत्


श्रीशंकराचार्यविरचितभाष्यश्रीरंगरामानुजविरचितप्रकाशिकासमेता ।

ॐ सह नाविति शान्तिः ।

ॐ उशन्ह वै वाजश्रवसः सर्ववेदसं ददौ ।
तस्य ह नचिकेता नाम पुत्र आस ॥ १ ॥

[ शांकरभाष्यम् ] ॐ नमो भगवते वैवस्वताय मृत्यवे ब्रह्मविद्याचार्याय नचिकेतसे च । अथ काठकोपनिषद्वल्लीनां सुखार्थप्रबोधनार्थमल्पग्रन्था वत्तिरारभ्यते । सदेर्धातोर्विशरणगत्यवसादनार्थस्योपनिपूर्वस्य क्विप्प्रत्ययान्तस्य रूपमुपनिषदिति । उपनिषच्छब्देन च व्याचिख्यासितग्रन्थप्रतिपाद्यवेद्यवस्तुविषया विद्योच्यते । केन पुनरर्थयोगेनोपनिषच्छब्देन विद्योच्यत इत्युच्यते । ये मुमुक्षवो दृष्टानुश्रविकविषयवितृष्णाः सन्त उपनिषच्छब्दवाच्यां वक्ष्यमाणलक्षणां विद्यामुपसद्योपगम्य तन्निष्ठतया[१] निश्चयेन शीलयन्ति तेषामविद्यादेः संसारबीजस्य विशरणार्द्धिसनाद्वि[२]नाशनादित्यनेनार्थयोगेन विद्योपनिषदित्यच्यते । तथा च वक्ष्यति- “निचाय्य तं मृत्युमुखात्प्रमुच्यते' क. ३।१५

[ प्रकाशिका ] अथ कठवलीव्याख्या ।

[३]अतसीगुच्छसच्छायमवितोरःस्थलं श्रिया ।
अञ्जनाचलशृङ्गारमञ्जलिर्मम गाहताम् ॥ १ ॥
व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान्गुरूनपि ।
व्याख्यास्ये विदुषां प्रीत्यै कठवल्लीर्यथामति ॥ २ ॥

 उशन्कामयमानः । वश कान्तावित्यस्माच्छतरि ग्रहिज्या ” पा. सू. ६ । १ । १६ इत्यादिना संप्रसारणम् । ह वा इति वृत्तार्थस्मरणार्थौ नि-

  1. तन्निष्ठतयेतिस्थाने तान्निष्ठयेति पाठः ।
  2. हिंसनादित्यस्य स्थाने विशसनादिति पाठः ।
  3. क्षेमाय यः करुणया क्षितिनिर्जराणां भूमावजृम्भयत भाष्यसुधामुदारः ।
    वामागमाध्वगवदावदतूलवातो रामानुजः स मुनिराद्रियतां मदुक्तिम्॥१॥