पृष्ठम्:काठकोपनिषत्.djvu/२५

पुटपरिशीलयितुं काचित् समस्या अस्ति
१।१।१
भाष्यद्वयोपेता

त७५ ह कुमार५ सन्तं दक्षिणासु नीयमानासु
श्रद्धाविवेश सोऽमन्यत ।। २ ।।
पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः ।
अनन्दा नाम ते लोकास्तान्स गच्छति ता ददत् ।। ३ ।

 [ शांकरभाष्यम्] तं ह नचिकेतसं कुमारं प्रथमवयसं सन्तमप्राप्तप्रजननशक्ति बालमेव श्रद्धास्तिक्यबुद्धि पितुर्हितकामप्रयुक्ताविवेश प्रविष्टवती। कस्मिन्काल इत्याह-ऋत्विग्भ्यः सदस्येभ्यश्च दक्षिणासु भीयमानासु विभागेनोपनीय मानासु दक्षिणार्थासु गोषु स आविष्टश्रद्धो नचिकेता अमन्यैत[१] ॥ २ ॥
 कथमित्युच्यते-पीतोदका इत्यादिना । दक्षिणार्था गावो विशे प्यन्ते । पीतमुदकं याभिस्ताः पीतोदकाः । जग्धं भक्षितं तृणं याभिस्ता दुग्धो दोहः क्षीराख्येो यासां ता दुग्धदोहाः । निरिन्द्रिया
[ प्रकाशिका ] तं कुमारं सन्तं बालमेव सन्तमृत्विग्भ्यो दक्षिणासु गोषु नीय मानासु सतीषु श्रद्धास्तिक्यबुद्धिः पितु र्हितकामप्रयुक्ताविवेशाविष्टवती यद्यपि यदानतिकरं द्रव्यं तद्दक्षिणेत्युच्यत एका चासौ ऋतावानतिरिति तदुपाधिको दक्षिणाशब्द एकवचनान्ततामेव लभते । अत एव भूनामकैका हक्रतौ तस्य धेनर्दक्षिणेत्यत्र कृत्स्रस्य गवाश्वादेः प्रकृतस्य दाक्षिण्यस्य निवृत्तिरिति * तस्य धेनुरिति गवाम् ' जै० १ १४ । ९६ इति दाशमिकाधिकरणे स्थितं तथापि दक्षिणाशब्दोऽयं भृतिवचनः स च कर्मापेक्षयापि प्रवर्ततेऽस्मिन्कर्मणीयं भृतिरिति, कत्रंपेक्षयापि प्रवर्ततेऽ स्मिन्कर्मण्यस्य पुरुषस्येयं भृतिरिति । ततश्च ऋत्विग्बहुत्वापेक्षया दक्षिणा बहुत्वसंभवाद्दक्षिणास्विति बहुवचनमुपपद्यते । अत एव ऋतपेये–“औी दम्बरः सोमचमसो दक्षिणा प्रियाय सगोत्राय ब्रह्मणे देयः ? इत्यत्रै कवाक्यतापक्षे ब्रह्मभागमात्रेऽपि दक्षिणाशब्दस्यावयवलक्षणामन्तरेण मुख्य त्वोपपत्तेस्तन्मात्रबाध इत्युक्तं दशमे “यदि तु ब्रह्मणस्तदूनं तद्विकारः स्यात्” जै. सू. १०॥१९॥७२ इत्यधिकरणे । ततश्च क्रत्वपेक्षया दक्षिणैक्येऽपि ऋत्विगपक्षेया दक्षिणाभेदसंभवाद्दक्षिणास्विाति बहुवचनस्य नानुपपत्तिरिति द्रष्टव्यम् ॥ २ ॥


  1. अमन्यतेत्यस्मात्परमालोचितवानिति पाठः ।