१।१।११ काठकोपनिषद् ८
यथा पुरस्ताद्भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः ।
सुखं रात्रीः शयिता वीतमन्युस्त्वां दद्दशिवान्मृत्युमुस्वात्प्रमुक्तम् ॥ ११ ॥
स्वर्गे लोके न भयं किंचनास्ति न तत्र त्वं न जरया बिभेति ।
उभे तीर्त्वाशनायापिपासे शोकातिगो मोदते स्वर्गलोके ॥१२॥
[शांकरभाष्यम् ] मृत्युरुवाच--यथा बुद्धिस्त्वयि पुरस्तात्पूर्वमासीत्स्नेहसमन्विता पितुस्तव भविता प्रीतिसमन्वितस्तव पिता तथैव प्रतीतः प्रतीतवान्सन्नौद्दालकिः । उद्दालक एवौद्दालकिः । अरुणस्यापत्यमारुणिद्वर्यामुष्यायणो वा मत्प्रसृष्टो मयानुज्ञातः सन्नितरा अपि रात्रीः सुखं प्रसन्नमनाः शयिता त्वप्ता वीतमन्युर्विगतमन्युश्च भविता स्यात्त्वां पुत्रं ददृशिवान्दृष्टवान्स मृत्युमुखान्मृत्युगोचरात्प्रमुक्तं सन्तम् ॥ ११ ॥
नचिकेता उवाच- स्वर्गे लोके रोगादिनिमित्तं भयं किंचन किंचिदपि नास्ति । न च तत्र त्वं मृत्यो सहसा प्रभवस्यतो जरया युक्त इह लोकवत्त्वत्तो न बिभेति’ कुतश्चित्तत्र । किंचोभे अशनायापिपासे तीर्त्वातिक्रम्य शोकमतीत्य गच्छतीति शोकातिगः सन्मानसेन दुःखेन वर्जितो मोदते हृष्यति स्वर्गलोके दिव्ये ॥ १२ ॥
[प्रकाशिका] एवमुक्तो मृत्युः प्रत्युवाच । यथापूर्वं त्वयि हृष्टो भविता उद्दालक एवौद्दालकिः । अरुणस्यापत्यमारुणिर्ह्यामुप्यायणो वा । उद्दालकस्यापत्य- मरुणस्य गोत्रापत्यमिति वार्थः । मत्प्रसृष्टो मदनुज्ञातो मदनुगृहीतः सन्मदनुग्रहादित्यर्थः । त्वयि विगतमन्युः सन्नुत्तरा अपि रात्रीः सुखं शयिता । लुट्, सुखनिद्रां प्राप्स्यतीति यावत् । दर्शितवान्दृष्टवान्सन्नित्यर्थः। क्वसन्तोऽयं शब्दो " दृशेश्चेति वक्तव्यम् " वा. इति क्वसोरिट्छान्दसो द्विर्वचनाभावः । मत्प्रसृष्टमिति द्वितीयान्तपाठे मत्प्रेषितं त्वामिति योजना ॥ ११ ॥
नचिकेता द्वितीयं वरं प्रार्थयते स्वर्गे लोक इत्यादिना मन्त्रद्वयेन । अत्र स्वर्गशब्दो मोक्षस्थानपरो यथा चैतत्तथोत्तरत्र वक्ष्यते । हे मृत्यो त्वं तत्र न प्रभवसि जरया युक्तः सन्न बिभेति जरातो न बिभेति तत्र वर्तमानः पुरुष इति शेषः। अशनाया बुभुक्षा । अत्रापि स्वर्गशब्दो मोक्षस्थानपरो यथा चैतत्तथोत्तरत्र वक्ष्यते ॥ १२ ॥
१ बिभेतीत्यस्मात्परं कश्चिदिति पाठः ।