९ भाष्यद्वयोपेता १।१।१३
स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि त्वं श्रद्दधानाय मह्यम् ।
स्वर्गलोका अमृतत्वं भजन्त एतद्द्वितीयेन वृणे वरेण ॥ १३ ॥
प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन् ।
अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम् ॥१४॥
[ शांकरभाष्यम् ] एवंगुणविशिष्टस्य स्वर्गलोकस्य प्राप्तिसाधनभूतमग्निं स्वर्ग्यं स त्वं मृत्युरध्येषि स्मरसि जानासीत्यर्थः । हे मृत्यो यतस्त्वं प्रब्रूहि कथय श्रद्दधानाय श्रद्धावते मह्यं स्वर्गार्थिने । येनाग्निना चितेन स्वर्गलोकाः स्वर्गो लोको येषां ते स्वर्गलोका यजमाना अमृतत्वममरणतां देवत्वं भजन्ते प्राप्नुवन्ति तदेतदग्निविज्ञानं द्वितीयेन वरेण वृणे ॥ १३॥
मृत्योः प्रतिज्ञेयम् । प्र ते तुभ्यं प्रब्रवीमि । यत्त्वया प्रार्थितं तदु मे मम वचसो निबोध बुध्यस्वैकाग्रमनाः सन्स्वर्यं स्वर्गाय हितं स्वर्गसाधनमग्निं हे नचिकेतः प्रजानन्विज्ञातवानहं सन्नित्यर्थः । प्रब्रवीमि तन्निबोधेति च शिष्यबुद्धिसमाधानार्थं वचनम् । अधुनाग्निं स्तौति-अनन्तलोकाप्तिं स्वर्गलोकफलप्राप्तिसाधनमित्येतत् । अथो अपि प्रतिष्ठामाश्रयं जगतो विराङ्रूपेण तमेतमग्निं मयोच्यमानं विद्धि जानीहि त्वं निहितं स्थितं गुहायां विदुषां बुद्धौ निविष्टमित्यर्थः ॥१४॥
[प्रकाशिका] स त्वमिति । पुराणादिप्रसिद्धसर्वज्ञस्त्वं स्वर्गप्रयोजनकमग्निं जानासि । "स्वर्गादिभ्यो यद्वक्तव्यः" वा. इति प्रयोजनमित्यर्थे यत् । स्थण्डिलरूपाग्नेः स्वर्गप्रयोजनकत्वं चोपासनाद्वारेत्युत्तरत्र स्फुटम् । श्रद्दधानाय मोक्षश्रद्धावते । स्वर्गलोकेन तव किं सिध्यतीत्यत्राह स्वर्गो लोको येषां ते परं पदं प्राप्ता इत्यर्थः । " परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते " छा० ८।३।४ इति देशविशेषविशिष्टब्रह्मप्राप्तिपूर्वकत्वात्स्वरूपाविर्भावलक्षणमोक्षशब्दितामृतत्वस्येति भावः ॥१३॥
एवमुक्तो मृत्युः प्राह त्वत्प्रार्थितं ते प्रब्रवीमि । "व्यवहिताश्च" पा.सू.
१।४।८२ इति व्यवहितः प्रयोगः। मे ममोपदेशाज्जानीहीत्यर्थः । ज्ञानस्य फलं
दर्शयति । अनन्तस्य विष्णोर्लोकस्तत्प्राप्तिम् । " तद्विष्णोः परमं पदम् " क०
१।३।९ इत्युत्तरत्र वक्ष्यमाणत्वात् । अथो तत्प्राप्त्यनन्तरं प्रतिष्ठामपुनरावृत्तिं
च लभत इति शेषः । तज्ज्ञानस्येदृशं सामर्थ्ये कथं संभवतीति मन्यमानं प्रत्याह ।
का०-२