पृष्ठम्:काठकोपनिषत्.djvu/४४

एतत् पृष्ठम् परिष्कृतम् अस्ति

१॥१॥२३     काठकोपनिषत्

  भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि।॥२३॥
  एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च ।
  महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि ॥ २४ ॥
  ये ये कामा दुर्लभा मर्त्यलोके सर्वान्कामांश्छन्दतः प्रार्थयस्व ।
  इमा रामाः सरथाः सतूर्या न हीदृशां लम्भनीया मनुष्यैः ।

[शांकरभाष्यम्] एवमुक्तोऽपि पुनः प्रलोभयन्नुवाच मृत्युः शतायुषः शतं वर्षाण्यायूंषि येषां ताञ्शतायुषः पुत्रपौत्रान्वृणीष्व किंच गवादिलक्षणान्बहून्पशून् । हस्तिहिरण्यं हस्ती च हिरण्यं च हस्तिहिरण्यम् । अश्वांश्च । किंच भूमेः पृथिव्या महद्विस्तीर्णमायतनमाश्रयं मण्डलं राज्यं वृणीष्व । किंच सर्वमप्येतदनर्थकं स्वयं चेदल्पायुरित्यत आह-स्वयं च जीव त्वं जीव धारय शरीरं समग्रेन्द्रियकलापं शरदो वर्षाणि यावदिच्छसि जीवितुम् ॥ २३ ॥

 एतत्तुल्यमेतेन यथोपदिष्टेन सदृशमन्यमपि यदि मन्यसे वरं तमपि वृणीष्व । किंच वित्तं प्रभूतं हिरण्यरत्नादि चिरजीविकां च सह वितेन वृणीष्वेत्येतत् । किं बहुना महत्यां भूमौ राजा नचिकेतस्त्वमेधि भव । किंचान्यत्कामानां दिव्यानां मानुषाणां च त्वा त्वां कामभाजं कामभागिनं कामार्हं करोमि । सत्यसंकल्पो ह्यहं देव ॥ २४ ॥

 ये ये कामाः प्रार्थनीया दुर्लभाश्च मर्त्यलोके सर्वांस्तान्कामांश्च्छन्दत इच्छातः प्रार्थयस्व । किंचेमा दिव्या अप्सरसो रमयन्ति पुरुषानिति रामाः सह
[प्रकाशिका] एवं नचिकेतसोक्तो मृत्युर्विषयस्य दुरधिगमतया मध्ये नङ्क्ष्यतीति निश्चित्य सत्यपि ग्रहणसामर्थ्ये विषयान्तरासक्तचेतस एतादृशं मुक्तात्म तत्वं नोपदेशार्हमिति मत्वा मुमुक्षास्थैर्यानुवृत्त्यर्थं प्रलोभयन्नुवाच--शतायुषः पुत्रपौत्रान्वृणीप्व बहून्पशून्हस्तिहिरण्यमश्वान् । स्पष्टोऽर्थः । पृथिव्या विस्तीर्णमायतनं मण्डलं राज्यं वृणीष्व । अथ वा भूमेः संबन्धि महदाय- तनं विचित्रशालाप्रासादादियुक्तं गृहं वृणीष्व । यावद्वर्षाणि जीवितुमिच्छसि तावज्जीवेत्यर्थः ॥ २३ ॥

 उक्तेन वरेण सदृशमन्यमपि वरं मन्यसे चेत्तदपि वृणीष्व प्रभूतं हिरण्यरत्नादिकं चिरं जीवनं चेत्यर्थः । एधि भव राजेति शेषः । अस्तेर्लोण्मध्यमपुरुषैकवचनम् । कामानां कामनाविषयं करोमीत्यर्थः ॥ २४ ॥

 छन्दतो यथेच्छमित्यर्थः । रथवादित्रसहिता मया दीयमानाः स्त्रियो मनुष्याणां दुर्लभा इत्यर्थः । आभिर्मया दत्ताभिः परिचारिकाभिः पादसं