पृष्ठम्:काठकोपनिषत्.djvu/५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

१|२|९ काठकोपनिषत् ३० यां त्वमापः सत्यधृतिर्बतासि त्वादृङ्नो भूयान्नचिकेतः प्रष्टा ॥ ९ ॥ जानाम्यह शेवधिरित्यनित्यं न ह्यधुवैः प्राप्यते हि धुवं तत् । ततो मया नाचिकेताश्वतोऽग्रिनित्यैर्दव्यैः प्राप्तवानस्मि नित्यम् कामस्याऽऽतिं जगतः प्रतिष्ठां क्रतोरनन्त्यमभयस्य पारम् । [शांकरभाष्यम्] स्वबुद्धचभ्यूहमात्रेणापनेया न प्रापणीयेत्यर्थः । नापनेतव्या वा न हातव्या । तार्किको ह्यनागमज्ञः स्वबुद्विपरिकल्पितं यत्किचिदेव कथ- यति । अत एवच येयमागमप्रभूता मतिरन्येनैवागमाभिज्ञेनाचार्येणैव तार्कि कात्प्रोक्ता सती सुज्ञानाय भवति हे प्रेष्ठ प्रियतम । का पुनः सा तर्कागम्या मति- रित्युच्यते । यां त्वं मतिं मद्वरप्रदानेनापः प्राप्तवानसि । सत्यावितथदिषया धृतिर्यस्य तव स त्वं सत्यधृतिर्बतासीत्यनुकम्पयन्नाह मृत्युर्नचिकेतसं वक्ष्य- मणावज्ञानस्तुतये । त्वादृक्त्वतुल्यो नाऽस्मभ्य भूयाभ्दवताभ्दव्स्न्यः पुत्र शिष्यो वा प्रष्टा । कीदृग्यादृक्त्वं हे नचिकेतः प्रष्टा ॥ ९ ॥ पुनरपि तुष्ट आह जानाम्यहं शेवधिर्निधिः कर्मफललक्षणो निधिरिव प्राथ्थेत इति । असावनित्यमनित्य इति जानामि न हि यस्मादनित्यैरध्रुवै- र्नित्यं ध्रुवं तत्प्राप्यते । परमात्माख्यः शेवाधिः । यस्त्वनित्यसुखात्मकः शेवधिः स एवानित्यैर्दव्यैः प्राप्यते । हि यतस्ततस्तस्मान्मया जानतापि नित्यमनित्यसाधनैर्न प्राप्यत इति नाचिकेतश्चितोऽग्रिनित्यैर्द्रव्यैः पश्चा- दिभिः स्वर्गसुखसाधनभूतोऽग्निर्निर्वर्तित इत्यर्थः । तेनाहमधिकारापन्नो नित्यं याम्यं स्थानं स्वर्गाख्यं नित्यमापेक्षिकं प्राप्तवानस्मि ॥ १० ॥ त्वं तु कामस्याऽऽप्तिं समाप्तिम् । अत्रैवेहैव सर्व कामाः परिसमाप्ताः । [ प्रकाशिका] स्वयं ज्ञातुं न शक्येत्यर्थः । हे प्रेष्ठ प्रियतमान्येनैव गुरुणोप- दिष्टैव मतिर्मोक्षसाधनज्ञानाय भवति । का पुन: सा मतिरित्यत्राह यां मतिं त्वमाप आप्तवानसि सिषाधयिषिततया निश्चितवानित्यर्थः । सत्यधृ- तिरसि । सत्याऽप्रकम्प्या धृतिर्यस्य स तथोक्तः । बतेत्यनुकम्पायाम् । त्वादृशः शिष्योऽस्माकं भूयादित्यर्थः ॥ ९ ॥ पुनरपि तुष्ट आह—शेवधिर्निधिः । कुबेराघैश्वर्यमेवंजातीयकं कर्मफल- लक्षणमनित्यमिति जानामि । आत्मतत्वमध्रुवैरनित्यफलसाधनभूतैरनित्यद्र- व्यसाध्यैर्वा कर्मभिरित्यर्थः । एवं ज्ञातवता मया ब्रह्मप्राप्तिसाधनज्ञानोद्देशे- नानित्यैरिष्टकादिद्रव्यैर्नाचिकेतोऽग्निक्ष्चितस्तस्माद्धेतोर्नित्यफलसाधनं ज्ञानं प्राप्तवानस्मीत्यर्थः । अतो ब्रह्मप्राप्तेर्ज्ञानैकसाध्यत्वस्य न विरोधः ॥ १० ॥