पृष्ठम्:काठकोपनिषत्.djvu/६९

एतत् पृष्ठम् परिष्कृतम् अस्ति

४७ भाष्यद्वयोपेता १।२।२९ यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ २५ ॥ इति काठकोपनिषदि प्रथमाध्याये द्वितीया वल्ली समाप्ता ॥ २ ॥ यस्त्वनेवंभूतो यस्यात्मनो ब्रह्मक्षत्रे सर्वधर्मविधारके अपि सर्वत्राणभूते उभे अदनोऽशनं भवतः स्याताम् । सवेहरोऽपि मृत्युर्यस्योपसेचनमेवौदन- स्याशनत्वेऽप्यपर्याप्तस्तं प्राकृतबुद्धिर्यथोक्तसाधनरहितः सन्क इत्था इत्थ- मेवं यथोक्तसाधनवानिवेत्यर्थः । वेद विजानाति यत्र स आत्मेति ॥२५॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादाशिष्यश्री- मदाचार्यश्रीशंकरभगवतः कृतौ काठकोपनिषद्भाष्ये प्रथ- माध्याये द्वितीयवल्ली समाप्ता ॥ २ ॥ [प्रकाशिका] मासप्रकरणे ऋत्वङ्गतया नानृतं वदेदिति निषेधवत्पुरुषार्थस्यापि दुश्चरितविरत्यादेरुपासनाङ्गतया विधानमुपपद्यते । ततश्च यस्तु पुरुषार्थमपि दुश्चरितनिषेधमतिलङ्घ्य परमात्मोपासनमविगुणं चिकीर्षति तस्य दुश्चरित- निषेधरूपाङ्गवैगुण्यादुपासनासाद्गुण्यं न सिद्धयतीति भावः ॥ २४ ॥ ब्रह्म च क्षत्रं च ब्रह्मक्षत्राख्यवर्णद्वयोपलक्षितकृत्स्रचराचरात्मकमिदं जगद्यस्यौदनो भवति यस्य विनाश्यो भवतीत्यर्थः । यस्य मृत्युः स्वयमद्य- मानत्वे सत्यन्यस्यादनहेतुर्भवति । स निखिलचराचरसंहर्ता परमात्मा यत्र यस्मिन्प्रकारे स्थितो यत्प्रकारविशिष्टस्तं प्रकारमित्थमिति को वेदेत्यर्थः । ननु ब्रह्मक्षत्रपदेन कृत्न्नचराचरग्रहणे किं बीजमिति चेदुच्यते । ब्रह्म च क्षत्रं चौदन इत्युक्त्ते ब्राह्मणक्षत्रियवर्णयोः कंचित्प्रत्योदनशब्दमुख्यार्थासं- भवादोदनशब्देन भोज्यत्वं वा भोग्यत्वं वा विनाश्यत्वं वा लक्षणीयम् । न हि ब्रह्मक्षत्रमात्रभोक्ता तन्मात्रसंहर्ता वा कश्चिज्जीवो वा परमात्मा वाऽस्ति । न चान्तरादित्यविद्यायां ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्ट इति सर्वलोकेश्वरे परमात्मन्युपासनार्थं लोकविशेषशितृत्वश्रवणवत्सर्वसंहर्तर्यपि परमात्मनि ब्रह्मक्षत्रसंहरणमुपासनांर्थमुपदिश्यतामिति वाच्यम् । तद्वदस्यो- पासनाप्रकरणत्वासंभवात् । अतो ब्रह्मक्षत्रग्रहणस्य चराचरमात्रोपलक्षणत्वं युक्तम् । उक्त्तं च सूत्रकृता । " अत्ता चराचरप्रहणात् " ब्र० सू० १।२।९ इति । नन्वेवमप्योदनशब्देन किमिति विनाश्यत्वं लक्ष्यते गौण- त्वमपि शब्दस्य साधारणगुणमपहायासाधारणगुणेनैव निर्वाह्यम् । न ह्यग्नि- र्मावणवक इत्यत्राग्निशब्देन पैङ्गल्यादेरिव द्रव्यत्वादेरुपस्थितिरस्ति । अत