पृष्ठम्:काठकोपनिषत्.djvu/७१

एतत् पृष्ठम् परिष्कृतम् अस्ति

४९ भाष्यद्वयोपेता १।३।१ छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्रयो ये च त्रिणाचिकेताः ? [शांकरभाष्यम्] छत्रिन्यायेन'। सुकृतस्य स्वयंकृतस्य कर्मण ऋतमिति पूर्वेण संबन्धः। लोकेऽस्मिञ्शरीरे । गुहां गुहायां बुद्वौ प्रविष्टौ। परमे बाह्यपुरुषाकाश- संस्थानापेक्षया परमम्ं । परस्य ब्रह्मणोऽधै स्थानं परार्धम् । तस्मिन्हि परं ब्रह्मोपलभ्यते । अतस्तस्मिन्परमे परार्धे हार्दाकाशे प्रविष्टावित्यर्थः । तौ च च्छायातपाविव विलक्षणौ संसारित्वासंसारित्वेन ब्रह्मविदो वदन्ति कथयन्ति न केवलमकर्मिण एव वदन्ति । पञ्चाग्रयो गृहस्था: । ये च त्रिणाचिकेताः त्रिःकृत्वो नाचिकेतोऽग्निश्चितो यैस्ते त्रिणाचिकेता ॥ १ ॥ [प्रकाशिका] धत्वेन वयं तदुपासने शक्ता इति मन्यमानं प्रत्युपास्योपासकयो- रेकगुहानुप्रवेशेन परमात्मनः सूपास्यत्वाद्वयमप्युपासितुं शक्ता इति द्वाभ्यां मन्त्राभ्यां दर्शयति ऋतं पिबन्तावित्यादिना। सत्यपदवाच्यवश्यंभाविकर्मफलम- नुभवन्तौ सुकृतसाध्ये लोके वर्तमानौ हृदयकुहरं प्रविष्टौ तत्रापि परमाकाशे परार्ध्ये परार्धे संख्याया उत्तरावधिस्तदर्हतीति परार्ध्यमुत्कृष्ट इत्यर्थः । तादृशे हार्दाकाशे वर्तमानौ । छायातपशब्दाभ्यां ३॥ौ लभ्येते । अज्ञ शब्देन जीवनिर्देशस्य चायमभिप्रायः । उपास्योपासकयोरेकगुहावर्तित्वे तयोरेव प्राप्यप्राप्तृताया वक्तव्यतया प्राप्यस्य च तत्प्राप्तिसाधनरथत्वेन रूपिते शरीरेऽवस्थानं न युक्तम् । न हि रथेन प्राप्तव्यार्थो रथस्थो भवतीति शङ्का न कार्या । प्राप्यस्य परमात्मनस्तत्रावस्थितत्वऽपि जीवम्य "पराभिध्यानात्तु तिरोहितम् " ब्र० सू० ३।२।९ इत्युक्तरीत्या परमा- त्मसंकल्पमूलकर्मरूपाविद्यावेष्टितया तदनुभवलक्षणतत्प्राप्तेरभावेन प्राप्तप्रा प्ययोर्जीवपरयो रथत्वरूपितशरीरान्तर्वर्त्येकगुहावर्तित्वकथने नानुपपत्तिरिति। पञ्चान्निशुश्रूषाशुद्धान्तःकरणास्त्रिणाचिकेता: । उक्तोऽर्थः । एवंभूता ब्रह्मविदो वदन्तीत्यर्थः । केवलपञ्चाग्नित्रिणाचिकेतानामीदृशपरमात्मप्रतिपा- दनसामर्थ्याद्ब्रह्यविदामेव पञ्चाग्मित्वत्रिणाचिकेतत्वे विशेषणे । अस्य मन्त्रस्य जीवपरमात्मपरत्वं सूत्रितम् । " गुहां प्रविष्टावात्मानौ हि तद्दर्श- नात् । " ब्र० सू० १।२।११ इति । ननु कर्मफलभोगशून्यपरमात्मनि ऋतं पिबन्ताविति निर्दिष्टकर्मफलभोक्त्तृत्वासंभवात्सुकृतसाध्यलोकवर्तित्वगु- १ छात्रेन्यायेनेत्यस्मात्परं न हि केवलत्यात्मनो भोत्कृत्वमास्ति । बुध्द्याघुपा- धिकृतमेव भोत्कृत्वम् । एवं च सति वक्ष्यमाणरथकल्पनया वैष्णवस्यास्पदस्यात्मतया प्रतिपत्तिरुपपद्यते नान्यथेति पाठः ।