पृष्ठम्:काठकोपनिषत्.djvu/७३

एतत् पृष्ठम् परिष्कृतम् अस्ति

भाष्यद्वयोपेता १।३।२ यः सेतुरीजानानामक्षरं ब्रह्म यत्परम् ॥ अभयं तितीर्षतां पारं नाचिकेत शकेमहि ॥ २ ॥ आत्मान रथिनं विद्धि शरीर रथमेव तु । [शांकरभाष्यम्]यः सेतुरिव सेतुरीजानानां यजमानानां कर्मिणां दुःखसंतरणा- थेत्वान्नाचिकेतोऽग्निस्तं वयंज्ञातुं चेतुं च शकेमहि शक्नुवन्तः। किंच यच्चाभयं भयशून्यं संसारपारं तितीर्षतां तर्तुमिच्छतां ब्रह्मविदां यत्परमाश्रयमक्षर- मात्माख्यं ब्रह्म तच्च ज्ञातुं शकेमहि शक्नुवन्तः । परापरे ब्रह्मणी कर्मब्रह्म- विदाश्रये वेदितव्ये इति वाक्यार्थः । एतयोरेव ह्युपन्यासः कृत ऋतं पिबन्ताविति ॥ २ ॥ तत्र य उपाधिकृतः संसारी विद्याविद्ययोराधकृतो मोक्षगमनाय। संसा- रगमनाय च तस्य तदभयगमने साधनो रथः कल्प्यते । तत्र तमात्मान- मतपं संसारिणं रथिनं रथस्वामिनं विद्धि जानीहि । शरीरं रथमेव तू रथबद्धहयस्थानीयैरिन्द्रियैराकृष्यमाणत्वाच्छरीरस्य । बुद्धिं तु अध्यवसाय- लक्षणां सारथिं विद्धि बद्विनेतप्रधानत्वाच्छरीरस्य । सारथिनेतृप्रधान इव [प्रकाशिका]"कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः ।" इति वचनानुसारेण परिगृहीतेऽविद्याया अन्तःकरणस्य वा जीवोपाधिकत्वमिति पक्षद्वयेऽपि नावि- द्यान्तःकरणयो: प्रतिबिम्बोपाधित्वं युज्यते । स्वच्छद्रव्यप्रतिहतपरावृत्तना- यनश्मिगृह्यमाणम्यैव प्रतिबिम्बशब्दार्थतया चाक्षुषम्य चैतन्यस्य प्रतिबि- म्बत्वासंभवेनाविद्याप्रतिबिम्बोऽन्तःकरणप्रतिबिम्बेो वा जीव इत्याश्रयणायो- गादविद्यावच्छिन्नोऽन्तःकरणावच्छिन्नो वा जीव इति पक्षद्वयमेव परिशिष्यते । तत्र च हृदयगुहायामविद्यान्तःकरणाभ्यामवच्छिन्नत्वेनानवच्छिन्नपरमात्मनो गुहाप्रवेशवर्णनश्रुतेर्वाऽन्तर्यामिब्राह्मणस्य वा नाञ्जतम्यमित्यलमतिचर्चया । प्रकृतमनुसरराम: ॥ १ ॥ यज्वनां य आधारभूतः कर्मफलप्रद इत्यर्थः । ईजानानामिति कान- जन्तः शब्दः । यन्निर्विकारं परं ब्रह्म । संसारसागरं तितीर्षतां निर्भयं दृढं तीरम् । नाचिकेतान्निप्राप्यमुपासितुं शक्ताः स्मेत्यर्थ । शकेव्थैत्ययेन शप् । नाचिकेतं शकेमहीत्यस्य मन्त्रखण्डस्य तथैव भाष्यकृता व्याख्या- तत्वात् । अतो दुरुपास्यत्वबुद्धया न भेतव्यमिति भावः ॥ २ ॥ आत्मानं रथिनं विद्धीत्यादिना सोऽध्वनः पारमाग्नोतीत्यन्तेन संसारा- ध्वपारभूतवैष्णवपरमपदप्राप्तौ परिकरमुपदिशन्प्राप्तृस्वरूपमुपदिशति-शरी-