पृष्ठम्:काठकोपनिषत्.djvu/९३

एतत् पृष्ठम् परिष्कृतम् अस्ति

२।२।३ ऊर्ध्वं प्राणमन्नयत्यपानं प्रत्यगस्यति । मध्ये वामनमासीनं विश्वे देवा उपासते ॥ ३ ॥ अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः ॥ देहाद्विमुच्यमानस्य किमत्र परिशिष्यते । एतद्वै तत् ॥ ४ ॥ न प्राणेन नापानेन मर्त्यो जीवाति कश्चन ॥ [शांकरभाष्यम्] आत्मनः स्वरूपाधिगमे लिङ्गमुच्यते—उर्ध्वं हृदयात्प्राणं प्राणवृत्तिं वायुमुन्नयत्यूर्ध्यं गमयति । तथापानं प्रत्यगधोऽस्यति क्षिपति य इति वाक्यशेषः । तं मध्ये हृदयपुण्डरीकाकाश आसीनं बुद्धावभिव्यक्तविज्ञान- प्रकाशनं वामनं संभजनीयं सर्वे विश्वे देवाश्चक्षुरादयः प्राणा रूपादिविज्ञानं बलिमुपाहरन्तो विश इव राजानमुपासते तादर्थ्येनानुपरतव्यापारा भवन्ती- त्यर्थः । यदर्था यत्प्रयुक्ताश्च सर्वे वायुकरणव्यापाराः सोऽन्यः सिद्ध इति वाक्यार्थः ॥ ३ ॥ किंच–अस्य शरीरस्थस्यात्मनो विस्रंसमानस्यावस्रंसमानस्य भ्रंशमा- नस्य देहिनो देहवतः । विश्वंसनशब्दार्थमाह-देहाद्विमुच्यमानस्येति । किमत्र परिशिष्यते प्राणादिकलापे न किंचन परिशिष्यतेऽत्र देहे पुरस्वामि- विद्रवण इव पुरवासिनां यस्यात्मनोऽपगमे क्षणमात्रात्कार्यकरणकलापरूपं सर्वमिदं हतबलं विध्वस्तं भवति विनष्टं भवति सोऽन्यः सिद्धः ॥ ४ ॥ स्यान्मतं प्राणापानाद्यपगमादेवेदं विध्वस्तं भवति न तु तव्घतिरिक्ता- त्मापगमात्प्राणादिभिरेव हि मर्त्यो जीवतीति । नैतदस्ति-न प्राणेन नापा- [ प्रकाशिका ] सर्वेषां हृदयगतः परमात्मा प्राणवायुमूर्ध्वमुखमुन्नयति अपानवायुमधोमुखं क्षिपति । हृदयपुण्डरीकमध्य आसीनं वामनं वमनीयं भजनीयम् । अथ वा हृदयपुण्डरीकपरिमिततया हस्वपरिमाणमित्यर्थः । तं सत्त्वप्रकृतयः सर्वेऽप्युपासत इत्यर्थः ॥ ३ ॥ एवं परमात्मानमुपासीनस्य " तस्य तावदेव चिरं यावन्न विमोक्ष्ये" छा० ६।१४।२ इति श्रुत्युक्तरीत्या शरीरपात एवान्तरायो न किं- चित्कर्तव्यं परिशिष्यत इत्याह--अस्योपासकस्य देहिनः शरीरस्थस्य शरीरप्रतिष्ठितस्य दृढशरीरस्येति यावत् । एवंभूतस्य वा विस्त्रंसमानस्य शिथिलीभवद्भात्रस्य वा देहाद्विमुच्यमानस्य म्रियमाणस्य वा किमत्र परिशि- ष्यते । कृतकृत्यत्वात्कर्तव्यं किमपि नावशिष्यत इति भावः। पूर्ववत् ॥४॥ तस्य सर्वप्राणिप्राणनहेतुत्वरूपं महिमानमाह-स्पष्टोऽर्थः । केनेतरेण