पृष्ठम्:काठकोपनिषत्.djvu/९६

एतत् पृष्ठम् परिष्कृतम् अस्ति

२।२।९ काठकोपनिषत् ७४

एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ ९ ॥ वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ॥ एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बाहिश्च ॥ १० ॥ सूर्यो यथा सूर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषेर्बाह्यदोषैः ॥ एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥ ११ ॥ [ शांकरभाष्यम्] भ्यन्तर आत्मातिसूक्ष्मत्वाद्दार्वादिष्विव सर्वेदेहं प्रति प्रविष्टत्वात्प्रतिरूपो बभूव बहिश्च स्वेनाविकृतेन रूपेणाकाशवत् ॥ ९ ॥ तथान्यो दृष्टान्तः-वायुर्यथैक इत्यादि । प्राणात्मना देहेष्वनुप्रविष्टो रूपं रूपं प्रतिरूपो बभूवेत्यादि समानम् ॥ १० ॥ एकस्य सर्वात्मत्वे संसारदुःखित्वं परस्यैव तदिति प्राप्तमत इदमुच्यते- सर्यो यथा चक्षुष आलोकेनोपकारं कुर्वन्मूत्रपुरीषाद्यशुचिप्रकाशनेन तद्दर्शिनः सर्वलोकस्य चक्षरपि सन्न लिप्यते चाक्षषैरशुच्यादिदर्शनानिमि- त्तैराध्यात्मिकैः पापदोषैह्यैश्चाशुच्यादिसंसर्गदोषेः । एकः संस्तथा सर्व- भूतान्तरात्मा न लिप्यते लोकद:खेन बाह्य । लोको ह्यविद्यया स्वात्मन्व- ध्यस्तया कामकर्मोद्भवं दुःखमनुभवति । न तु सा परमार्थतः स्वात्मनि । यथा रज्जुशुक्तिकोषरगगनेषु सर्परजतोदकमलानि न रज्ज्वादीनां स्वतो दोषरूपाणि सन्ति । संसर्गिणि विपरीतबुद्धयध्यासनिमित्तात्तद्दोषवद्वि- भाव्यन्ते । न तद्दोषैस्तेषां लेपो विपरीतबुद्धयध्यासबाह्या हि ते । तथा- त्मनि सर्वो लोकः क्रियाकारकफलात्मकं विज्ञानं सर्पदिस्थानीयं विपरीत- मध्यस्य तन्निमित्तं जन्ममरणादिदुःखमनुभवति न त्वात्मा सर्वलोकात्मापि सन्विपरीताध्यारोपनिमित्तेन लिप्यते लोकदुःखेन । कुतः । बाह्यो रज्ज्वा- दिवदेव विपरीतबुद्धयध्यासबाह्यो हि स इति ॥ ११ ॥ [प्रकाशिका] करणाय पुनरप्युपदिशति यथैकस्तेजोधातुस्त्रिवृत्करणकृतव्या- प्त्याण्डान्तर्गतलोके प्रविष्टः सन्रूपं रूपं रूपे रूपे भौतिकव्यक्तिषु वीप्सायां द्विर्वचनम्। प्रतिरूपं प्रत्युतं रूपं यस्य स तथोक्तः । सर्वासु भौतिकव्याक्तिषु तेजोधातोर्मिलितत्वेन प्रतिसंत्र्कन्तरूपत्वात्प्रतिरूपमस्तीति द्रष्टव्यम् । तथैक एव सन्परमात्मा प्रतिवस्तुसंक्रान्तान्तर्यामिविग्रहो बहिश्च व्याप्नोतीत्यर्थः ॥ ९ ॥ उदाहरणान्तरमाह-पूर्ववत् ॥ १० ॥ आत्मत्वाविशेषेऽपि जीवात्मवद्दोषाः परमात्मनि न भवन्तीत्येतत्सदृष्टा- न्तमाह- "रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः ” बृ. ५।५।२ " आदित्यश्चक्षु-