पृष्ठम्:काठकोपनिषत्.djvu/९९

एतत् पृष्ठम् परिष्कृतम् अस्ति

७७ भाष्यदूयोपेता २।२।१५ [शांकरभाष्यम्] ब्रह्मणो भारूपत्वं स्वतोऽवगम्यते । न हि स्वतोऽविद्यमानं भासनमन्यस्य कर्तुं शक्यम्। घटादीनामन्यावभासकत्वादर्शनाद्भासनरूपाणां चादित्यादीनां तद्दर्शनात् ॥ १५ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यगोविन्दभगवत्पूज्यपादाशिष्यश्री- मदाचार्यश्रीशङ्करभगवतः कृतौ काठकोपनिषद्भाष्ये द्वितीया- ध्याये द्वितीया वली समाप्ता ॥ २ ॥ ( ५ ) [प्रकाशिका ]" ज्योतिर्दर्शनात् ' ब्र. सू. १।३।४० इति सूत्रे सर्वतेजसां छादकं सर्वतेजसां कारणभूतमनुग्राहकं चाङ्गुष्ठप्रमितस्य ज्येतिईश्यत इति भाष्येण विवृतः। इदं च भाष्यम् । न तत्र सूर्य इत्यादिमन्त्रे पूर्वार्धस्यार्थमाह- सर्वतेजसां छादकमिति उत्तरार्धस्य पूर्वपादार्थमाह-सर्वतेजसां कारणभूत- मिति । अनुभानं पश्चाद्भानं तेन कार्यकारणभावः सिद्धः । पौर्वापर्यनि- यमो हि कार्यकारणभाव इति भावः । चतुर्थपादार्थमाह--अनुग्राहकमिति । " यस्यादित्यो भामुपयुज्य भाति " इत्यादिश्रुतिश्चानुग्राहकत्वे प्रमाण- मिति व्यासायैर्विवृतम् । तदीयदीयप्तिसाक्षात्कारसंभवे तेजोऽन्तराणामभि- भूतत्वं प्रथमार्धार्थः । तेजोन्तरोत्पत्तौ तदुपादानद्रव्यानुग्राहकत्वरूपं निमि- त्तत्वं तृतीयपादार्थः । चाक्षुषरश्म्यनुग्राहकचन्द्रादेरिवोत्पन्नस्यापि तेजसः स्वसंबन्धेन स्वकार्यकरणसामर्थ्याधायकत्वलक्षणानुग्राहकत्वं चतुर्थपादार्थ इत्यप्यर्थस्तत्रैव व्यक्त । अधिष्ठानब्रह्मरूपभानव्यातिरिक्तभानशून्यत्वमध्य- स्तप्रपञ्चस्य तृतीयपादार्थ इति परैरुच्यते तदयुक्तम् । तथा हेि सति भान्तामिति कर्त्रर्थशतृप्रत्ययस्य शिष्यज्ञानं प्रकाशत इतिवदभेदेऽपि कथं- चित्संभवेऽप्यनुभातीत्यनुशब्दस्यायोगात्। नहि देवदत्तगमनक्रियाव्यतिरिक्त- गमनक्रियाशून्ये तिष्ठति यज्ञदते गच्छन्तं देवदत्तं यज्ञदत्तोऽनुगच्छतीति प्रयोगो दृष्टचरः । ननु वह्निमेव दहन्तमयोऽनुदहतीति प्रयोगो दृष्टचर इति चेन्न । अयसः पृथग्दग्धृत्वाभावं निश्चितवतस्तत्प्रतिपिपादयिषया तादृशप्रयोगस्य संप्रतिपन्नत्वाभावात् । ननु तदीयदीप्तिसाक्षात्कारसंभवे तेजोऽन्तराणामभिभूतत्वमिति भवदभिमतार्थोऽपि न युज्यते । तदीयदीप्ति- साक्षात्कारवतामपि मुक्तानां तेजोऽन्तर्दीसाक्षात्कारदर्शनेन सजातीयसंव- लनाधीनाग्रहणलक्षणाभिभवस्याभावादिति चेदुच्यते । बद्धविषयमेवैतत् । बद्धानां तत्साक्षात्काराप्रसक्त्तेरिदं कथमिति चेन्न । बद्धानामेवार्जुनादीनां तत्साक्षात्कारदर्शनात् । यद्वा कालिदासकवौ परिगण्यमान इतरः कुकविर-