अष्टमः सर्गः ।
अथ दुःसहसन्तापात्सन्निरुभ्य सखीजनम् ।
अहमेकाकिनी तूष्णीं कन्यान्तःपुरमासदम् ॥ १ ॥
तत्र मच समारुह्य निरुद्धाशेषभावना ।
तमेव हि महाभागं पुनःपुनरचिन्तयम् ॥ २ ॥
सिन्धुवेलेव शीतांशौ पझिनीव प्रभाकरे ।
बद्धभावा दृढ जाता तस्मिन्दूरस्थितेऽप्यहम् ॥ ३ ॥
प्राणानां निर्यतां रक्षा देहसिद्धौ रसायनम् ।
अप्रभूः सर्वसौख्यानां तचिन्तेव ममाभवत् ।। ४ ॥
किं करोमि क गच्छामि किं पश्यामि शृणोमि किम् ? ।
कस्य दुःखं वदामीति सर्वे नाज्ञासिषं तदा ॥ ५ ॥
पवन तद्दिशायातं वकुलमोदवाहिनम् ।
अप्रैरनन्नसन्ततैरौच्छमालिङ्गितुं दृढम् ।। ६ ।।
परं तदंतधीरने दृष्टं द्रष्टुमशक्तया ।
केवलं शून्यया दृष्ट्या तामेव दिशमैक्षिषि ॥ ७ ॥
ततस्तरलिका नाम चेटीपश्चद्विलम्बिता ।
मां तथावस्थितां प्राप्य मन्दमेवमभाषत ॥ ८ ॥
यौ भर्तृदारिके ! तत्र दृौ मुनिसुतौ तयोः।
अवतंसीकृता येन तवेयं पुष्पमञ्जरी ॥ ९ ॥
स तु मामन्वगागत्य सखायमपि ववयन् ।
सानुतापं च साशमिदमाह महामतिः ॥ १० ॥