उदितेनोडुनाथेन गाढोत्कण्ठाविधायिना।।
उदकुम्भत कमान्निः पवनेनेव पावकः ॥ ११ ॥
दिवि चन्द्रकरल्योषादयन्त तनौ मम ।
इतस्ततश्च सञ्जाता झटका इव तारकाः ।। १२ ।।
ततोऽब्रुवं तरलिकां पुण्डरीके निबद्धधीः ।
बद्धश्रवा विरूपाक्षे विजयामिव पार्वती ॥ १३ ॥
इब्रे तरलिके! कामो बाधते मां हिमांशुना ।
निरुक्कुशेन हेमन्त हिमेन नलिनीमिव ॥ १४ ॥
वेष्टिता चन्द्रकिरणैः प्रपीड्ये कामसायकैः ।
हरिणी वागुराबद्ध शतैव्र्याधशरैरिव ॥ १५ ॥
पुरश्चन्द्रः स्मरः पश्चन्मध्ये निपतिता तयाः ।
अहं कथं नु जीवामि मयोरिव दन्तिनोः ॥ १६ ॥
यातुं स्थातुं न शक्तेमि ह्रिया च मदनेन च।
अवपातगता सद्या । क्न्येव 2विवशावशा ।। १७ ।।
कदर्पयाणविद्धाऽहं न्यपतं भुवि मूर्छिछता ।
वैनतेयसमाक्रान्ता नागकन्यव विदय ।। १८ ।।
प्रतिक्रियाभिराश्वस्तां चक्रे सा मां स्मर्दनम् ।
शफरीं ग्रीष्मसन्तप्तां वर्षाश्रीरिव वृष्टिभिः ॥ १९ ॥
आत्मना विधृताकारां शयितां स्मरसायकैः ।
3दुःखिता मामश्रुमुखीं दृष्ट्वा तरलिकाऽगदत् ॥ २० ॥
1. प्रपश्येनेवेति मातृ ।
2. विवशा बात् इति मत्रुका ।
3. विलोक्य मा इति मनुश्च ।