पृष्ठम्:कादम्बरीकथासारः.pdf/३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्री त्रिविक्रमविरचितः

एवं दिने दिने दत्वा भोज्यवस्तु यथास्नुवि ।
मद्भक्तशेषमशनमात्मनश्चाकरोस्पिता ॥ । २७ ॥

एकदाऽखण्डलहरिद्वधूमाणिक्यकुण्डले !
आविर्भूते स्फुरद्भासि मण्डले चण्डदीधितेः ॥ २८ ॥

यथेच्छं दिक्षु कीरेषु गतेषु निखिलेष्वपि ।
क्रोडस्थितस्य तातस्य मयि चासन्नवर्तिनि ॥ २९ ॥

सहसैव वने तस्मिन् दुष्टसत्वभयङ्करे ।
लतागुच्छोचलमत्तभृक्झझारमेदुरः ॥ ३० ॥

उत्पतत्पक्षिसङ्घातपक्षशात्क्रशीफरः ।
उद्घोणकाननकोडघर्घरध्वनिमांसलः ॥ ३१ ॥

परितो भीतमातङ्गपोतफीत्कारपीवरः ।
सुप्तप्रबुद्धसंक्रुद्धसिंहनादोपचूंहितः ॥ ३२ ॥

विपाटितश्रोत्रपुटो दिगन्सरविलुम्भितः ।
उच्चचायधिकः क्रूरो निनदो मृगयोद्भवः ॥ ३३ ॥

तमाकण्र्याधिकं क्रूरं भयात्सञ्जातवेपथुः ।
तत्प्रतीकारबुध्याहं प्राविधी पक्षतिं पितुः ॥ ३४ ॥

अथ संरम्भसहितमितो मुगकदम्बकम् ।
इतो मतङ्गजनमितो गवयसञ्चयः ॥ ३५ ॥

इतः शार्दूलनिवहः इतो भल्लूक्संहतिः ।
इतो गोकर्णसङ्घात इतः शरभसञ्चयः ॥ ३६ ॥

इतो यूथं वराहाणां श्वापदानामितो गणः।
चामराणामितो वृन्द इतो वाहद्विधां बुलम् ॥ ३७ ॥


१४. पक्षति पञ्चमुखम्।