पृष्ठम्:कादम्बरीकथासारः.pdf/८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५८
श्री त्रिविक्रमविरचितः

निवर्य तद्वतां दृष्टं पश्चाद्विधूतवाहनः ।
चन्द्रापीडः स्वयं स्थित्वा चिन्तयामास विस्मितः ॥ ४१ ॥

किमर्थं शिशुनेवात्मा भृशमायासितो मया ।
गृहीतेनागृहीतेन किमनेन प्रयोजनम् ।। ४२ ।।

इतो बलं मे विच्छिन्ने न जाने कियताध्वना ।
इन्द्रायुधोऽप्यतिजवः क्षणाद्देशान्तरं गतः ॥ ४३ ॥

ईदृशं देशमेकाकी प्रान्तरेण समागतः ।
जीर्णपर्णप्रपातेन वर्तन्यपि न लक्ष्यते ॥ ४४ ॥

अनेन कापथेनैव निवृत्तः स्यां कथ पुनः ।
ज्ञायन्ते न च दिग्बोहादपि पूर्वादयो दिशः ॥ ४५ ॥

अस्मिन्देशे मया कोऽपि मर्यधर्मा न लक्ष्यते ।
उपदेक्ष्यति यो मार्गे सुवर्णपुरगामिनम् ॥ ४६ ॥

सुवर्णपुरसीमान्तमुत्तरेण महद्वनम् ।
तच्चातिक्रम्यकैलास इत्येवं श्रूयते किल ॥ ४७ ॥

तस्मादयं स कैलास इतः प्रतिनिवृत्य च ।
दक्षिणां दिशमाश्रित्य गन्तव्यं केवलं मया ॥ ४८ ॥

इति सश्चित्य पाणिस्थरश्मिपाशस्तुरङ्गमम् ।
व्यावर्तयामास पुनः चिन्तयामास तत्क्षणात् ॥ ४९ ॥

परमिन्द्रायुधः श्रन्तः प्राप्तो मध्यंदिनं रविः।
क्षणे विश्रम्य कुनापि गमिष्यामि ततः शनैः ॥ ५० ॥