- सप्तमः सर्गः ।
अथ तस्य महीनूरातिथ्यमतिथिप्रिया ।
चके यथा क्रमं कन्या सितपूर्वाभिभाषिणी ॥ १ ॥
तयाऽनुबध्यमानश्च सर्वामतिथिसत्क्रियाम् ।
प्रश्रयावनतेनैव मूत्रं प्राञ्जलिरस्रहीत् ॥ २ ॥
ततस्तया समादिष्टश्चन्द्रकान्तशिलातलम् ।
अध्यासामास भूभर्ता शारदाभ्रमिवोडुराट् ॥ । ३ ॥
को नु देशो महाभाग! कामं त्वद्विरहातुरः ।
किं वा कुलं निरुपमं भवता पावनीकृतम् ॥ १ ॥
प्राप्तः कस्मादिम भूमिमेकाकी श्रान्तवाहनः।
आचक्ष्व सर्वमियेवं चन्द्रापीडमुवाच सा ॥ ५ ॥
आरभ्य जन्मनः सोऽयमावाहमुखदर्शनात् ।
आत्मनश्चरितं सर्वमाचचक्षे विचक्षणः ॥ ६ ॥
भिक्षाकपामादाय सहसोत्थाय सादरम् ।
आश्रमह्ममुक्तानि भिक्षायै विचचार सा ॥ ७ ॥
स्वयं निपतितैः पत्रैरमृतस्यन्दिभिः पलैः ।
तद्भिक्षाभाजनं तस्याः परमापूर्यत क्षणात् ॥ ८ ॥
कन्यका पुनरागत्य चन्द्रापीडं सकौतुकम् ।
फलानामुपभोगे सापवित्रमाणामयाचत ॥ ९ ॥
६.बाहोऽश्वः तन्मुख छिन्नरः । तादृशकिमर्द्वन्द्वदर्शनपर्यतमारमनश्चरितमाचचक्षे ईस्यर्थः ९. पश्रिमाणां पकानां फलानमुपभोगमयतेत्यर्थः।।