KADAMBAR. 24 नीवीग्रन्थिः तस्मिन् दृढतरं अर्पितं पाणिद्वयं यया. ‘स्त्रीकटीवस्त्रबन्धेऽपि नीवी’ इत्यमरः-नीविराग्रथनं नार्या जघनस्थस्य वाससः’ इति कात्यः. अवञ्चितः कृतार्थः आत्मा यस्य. आतृप्तेः to my hearts content. सुजीवितं (शोभनं जीवितं यस्य )...करोमि-hy drinking अमृत, one becomes immortal. मकरध्वजः एव अनलः तेन दग्धशेषम् (burnt, yet a part of which is left)- निर्वापयामि शीतलीकरोमि. परवत्याऽपि--the instrumentals from परवत्या to ०दर्शि तभावया qualify कादम्बर्या and should be taken in pairs. परवत्या. ..वृत्तयेव though helpless (on account of her love and sense of bashfulness) yet she acted in accordance with her will. Arexplains परवत्यापि etc. as ‘लज्जाविवशयापि कौतुकानुरागाभ्यां संभोगे स्वेच्छाप्रवृत्तयेच २ इव शब्देन स्वेच्छाप्रवृत्तेरतिप्रकाशतानुमीयते अभियुआना pr. p. of युज with अभि to exert oneself. उपदर्शितः भावः यया who exhibited her inner feelings (her deep affection ) On संगोपित...भावयेव Arremarks पीडया प्रच्छादितपुलकाद्यङ्गविकारयापि उपदर्शितहृदययेव निग्धवीक्षणादिभिरभि प्रायं दर्शयन्त्येव." तत् किमपि—the accusatives from तत् ( 1. 9 ) to ०प्रकारं qualify सुरताख्यं सुखान्तरम् (. 16). सर्वजनसुलभमपि योगैकगम्यम्—it is not possible for us, Or IS it desirable to explain in English the following passage. We shall give in Sanskrit a few remarks on some of the words in the followingArcomments ‘सर्व जनानां यद्वस्तु प्रत्येकं तद्वस्तु द्वयोर्योगमवेक्ष्य प्रवर्तते इति विरुद्धम् । विरोधाभासा लङ्कारार्थमपिशब्दः । एतत्सुरतं सर्वजनसुलभं च स्त्रीपुंसयोर्योगैकगम्यं च भवति । सुरतपक्षे अपिशब्दः समुच्चये । निर्वाणं तु सर्वजनसुलभं न भवति । योगैकगम्यं यमनियमादिभिरष्टाङ्गयोगैरुपलक्षितेन योगेन विना नाधिगम्यमित्यर्थः । तस्मादपरप्रकारं निर्वाणमिवेत्युक्तम् । स्पर्श विपयमपि त्वगिन्द्रियं यद्वस्तु तद्र हृदयग्राहि हृदयस्पर्शाति प्रतीतिमात्रविरोधः । सुरतं स्पर्शविषयं च हृदयाकर्ष च । निर्वाणं तु स्पर्शविषयं न भवति शानगम्यत्वात् हृदयग्राहि हृद्या भवति । मोहनमपि इन्द्रियाणां प्रसादकम् । मोहनं मूछकरं यद्वस्तु तदिन्द्रियप्रसादकमिति विरुद्धम् । एतत्सुरतं इन्द्रियाणां मोहनं सुखातिशयेन मोहकरं प्रसादकं च । निर्वाणं तु मोहनं तु न भवति । इन्द्रियाणां प्रसादकं प्रकर्षेण इन्द्रियाणां सादकं नाशकम् । इन्द्रियाण्यपि ज्ञानविषये मोक्षे लीयन्ते इति तद्विदः कथयन्ति । तस्मादिन्द्रियप्रसादकम् । उद्दीपकमपि मदनहुतभुजो निधृति- करम् । अनेरुद्दीपनं यद्वस्तु तन्निधृतिकरमिति विरुद्धम् । सुरतं मदनाख्यहुतभुजः सन्धुक्षणं च सुखकरं च । मदनहुतभुजः शान्तिकरमुद्दीपनं न भवति । उपाहितसर्वाङ्ग- खेदमपि आहूदकरम् । सर्वाङ्गखेदकारिणो वस्तुन आलादकारित्वं विरुद्धम् । सुरतं सर्वागखेदकरं च हृदयस्यालादकरं च । निर्वाणमाहादकरं सर्वाङ्गानां यमनियमादी- नामष्टांगानां खेदकरं न भवति । अथवा मुक्तानां प्रकृत्यभावादंगखेदो न विद्यते । उपज नितविपमोच्छासश्रमस्वेदमपि ससीत्कारपुलकजननम्। विषमोच्छासश्रमस्वेदाश्च उष्णेन जायन्ते । सीत्कारपुलकादयः शीतेन जायन्ते । तस्माद्विषमोच्छासादिजनकस्य व स्तुनः सीत्कारपुलकजनकत्वं विरुद्धम् । सुरतमुभयविधेच। निर्वाणं चानन्दात्मकत्वात् सी कारपुलकजनकम् । निर्वाणं सर्वजनसुलभत्वस्पर्शविषयत्वादिपूवोंक्तविशेषणवर्जितत्वात् उत्तरोक्तयोगैकगम्यत्वहृदयग्राहित्वादिगुणयुकत्वाच्च अपरप्रकारं निर्वाणमिवेत्युक्तम् । 21
पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/२८१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति