पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/158

एतत् पृष्ठम् परिष्कृतम् अस्ति

पीडस्तु तथा हर्षपरवशं पितरमालोक्य ससंभ्रमोन्मुक्तपुण्डरीकः
पुरेव पृथ्वीतलनिवेशितशिराश्चरणयोरपतत्। अथ सत्वरोपसृतस्तं
तथा प्रणतमुन्नमय्य तारापीडोभ्यधात्। पुत्र यद्यपि पिताहं तव
शापदोषात्स्वपुण्यैर्वा सञ्जातस्तथापि जगद्वन्दनीयो लोकपालस्त्वम्।
अपि च मय्यपि नमस्यो योंऽशः सोपि मया त्वय्येव संक्रामितः।
तदुभयथापि त्वमेव नमस्कार्यः। इत्यभिदधदेव समं राजपुत्रलो
कसहस्रैः प्रतीपमस्य पादयोरपतत्। विलासवती तु तथा पित्रा
प्रणते तस्मिन्परितोषेण स्वाङ्गेष्विवासंमान्ती तं पुनः शिरसि पुन
र्ललाटे पुनश्च कपोलयोश्चुम्बित्वा गाढतरं सुचिरमालिलिङ्गा उ
०न्मुक्तश्च मात्रोपसृत्य पुनः पुनः कृतनमस्कारः शुकनासं प्रणनाम।
आशीः सहस्रस्मिवर्धितश्च तेनात्मनोपसृत्य यथानुक्रमं पित्रोः शु
कनासस्य मनोरमायाश्चैष वो वैशम्पायन इति पुण्डरीकं विनय
विलक्षावनम्रवदनमदर्शयत्।
तस्मिन्नेव च प्रस्तावे समुपसृत्य कपिञ्जलः शुकनासमवादीत्।
एवं सन्दिदष्टमार्यस्य भगवता श्वतकेतुना। अयं खलु पुण्डरीकः सं
वार्धित एव केवलं मया। आत्मजः पनस्तव। अस्यापि भवस्तवेव
लग्नः स्नेहः। तद्वैशम्पायन एवायमित्येवमवगत्याऽविनगेम्यो नि
वारणीयः। परोऽयमिति कृत्वा नोपेक्षणीयः। यच्चापगतशापोऽप्या
त्मसमीपं नानीतः तत्तवैवायमिति। अन्यच्चात्मानमस्मिन्नाचन्द्रका
लीनायुपि स्थापयित्वा कृतार्थः संप्रत्यस्माद्दिव्यलोकादप्युपरिष्टाद्ग
न्तुमुद्यतं मे सत्त्वाख्यं ज्योतिरिती। शुकनासस्तु विनयावनतं पु
ण्डरीकंपशिआनांसेऽवलम्व्यकपिञ्जलंप्रत्यवादीतिआकपिञ्जलस
कलजगदाशयज्ञेन सता भगवता किमित्याआदईष्टऽरा ।सर्वथा स्त्रेह
स्यायमसन्तोषः। इत्येवांविधैश्च पूर्वजन्मवृत्तान्तानुस्मरणस्मरणालापैः
दपरस्परालोकनसुखोत्फुल्ललोचनानां सर्वेषामेव तेपामचेतितैव सा
क्षृणदा प्रभाता। प्रातरेव च सकलगन्धर्वलोकानुगतौ समं मदिरा
गौरीभ्यां चित्ररथहंसौ गन्धर्वराजावपि तत्रैवाजग्मतुः ।आगत
योश्च तयोर्लज्जितात्मजोपगममुदित हृदययोर्जांमातृदर्शनसमुत्फुल्लव