पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/44

एतत् पृष्ठम् परिष्कृतम् अस्ति

चिददृश्यमाने प्रियजने जनितहृदयानुरागाज्जीवितमप्यपहरति इत्यब्रवीत् । एतदपि नास्त्येव मे । मदनेन वा दैवेन वा विरहेण वा यौवनेन वानुरागेण वा मदेन वा हृदयेन वान्येन वा केनापि दत्तः सङ्कल्पमयः कुमारो जनसन्निधावपि केनचिदविभाव्यमानः सिद्ध इव सर्वदा मे ददाति दर्शनम् । अपि चासाविव नायम काण्डपारईत्यागनिष्टुरहृदयः । अयमेवास्मद्धईरहकातरः । नायं नक्तंदिवं लक्ष्मीसमाकुलः । न पृथिव्याः पतिः । न सरस्वतीम पेक्षते । न कीर्तिशब्दं वर्धयति । पश्यामि चाहर्निशभासीनो त्थिता भ्राम्यन्ती शयाना जाग्रती निमीलितलोचना चलन्ती स्वप्नायमाना च शयने श्रीमण्डपे गृहकमलिनीपूद्यानेपु लीलादी र्घिकासु क्रीडापर्वतके वालगिआरईनदिकासु च यथा तमज्ञजनवि डम्बनैकहेतुं विप्रलम्भकं कुमारं ते तथा कथितमेव मया । तदलमनया तदानयनकथया । इत्यभिदधानाऽतर्कितागतमूर्छेव निमीलिताक्षी पक्ष्माग्रसम्पिण्डितनयनजलवर्षिणी विलीयमानेवो त्पीडयमानेवान्तर्जातमन्युवेगेन तथैव वेदिकावितननाभिदामांशु कावलम्बिन्यां बाहुलतिकायामच्छसलिलस्तोतसि प्रसूतायां मृणा लिकायामिव जलाहतिश्यामारुणतामरसमिवाननमुपावेश्य तूप्णी मुत्कीर्णेव तस्थौ । अहं तु तच्छुत्वा समचिन्तयम् । सत्यमेव गरीयः खलु जीवितालम्बनमिदं विनोदश्च वियोगिनीनां यदुत सङ्कल्पमयः प्रियः नितरां कुलाङ्गनानां विशेषतः कुमारीणाम् । तथा हि । अनेन सार्घमकृतदूतिकापादपतनदैन्यानि प्रतिक्षणं समागमशता न्यकालरमणीयानि स्वेच्छाभिसरणसौख्यान्यदूषितकन्यकाभावानि सुरतानि । सुरतेपु चाकृतस्तनव्यवधानदुःखान्यालिङ्ग्नानि अज नितव्रणदर्शनब्रीडानि नखदःतक्षतसुखानि, अनाकुलितकेशपशाः

१ यदुत्त्क्तसङ्कल्प इति न