पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/45

एतत् पृष्ठम् परिष्कृतम् अस्ति

कचग्रहमहोत्सवाः, शब्दविहीनानि निधुवनानि, अनुत्पादितगुरु जनविभावितक्षतवैलक्ष्याण्यधरखण्डनविलसितानि । नैनमन्धका- रराशिरन्तरयति, न जलधरधारापातः स्थगयति, न नीहारनिक रस्तिरोदधाति । इत्येवं चिन्तयन्त्या एव मेऽनुरागकथारसप्लावेनेव रक्ततामगाद्दिवसः । तत्क्षणं प्रकटितरागं हृदयमिव कादम्बर्या स्त्रपया पलायमानमदृश्यत रविमण्डलम् । पल्लवशयनमिव सन्ध्या रागमरचयद्यामिनी । परिचारक इव चन्द्रमणिशिलातलतल्पमक ल्पयत्मदोषः । अत्रान्तरे चागत्य स्वं स्वं नियोगमशून्यं कुर्वाणा दूरतो दीपिकाधारिण्यो गन्धतैलावसित्कसुरभिगन्धोद्गारिणीभिर्दीपिकाभि र्विरचितचक्रवालिका बालिकाः पर्यवारयन् । अथ निर्मललावण्यल १० क्षितानि दीपिकाप्रतिबिम्बितानि ज्वलितानि मदनसायकशल्यानी वाङ्गलग्नानि समुद्वहन्तीं नवनिरन्तरकलिकाचितां चम्पकलतामिव तथावस्थितां तां पुनर्व्यजिज्ञपम् । 'देवि प्रसीद । नार्हस्यखेदार्हा हृदयखेदकारिणं सन्तापमङ्गीकर्तुम् । संहर मन्युवेगम् । एषाहमादाय चन्द्रापीडमागतैव इति । अथानेन देवनामग्रहणगर्भेण मद्वचसा विषापहरणमन्त्रेणेव विषमूर्छिता झटित्युन्मील्य नयने सस्पृहं मामवलोक्य 'कः प्रदेशेऽस्मिन्' इति परिजनमपृच्छत् ।

अथ धवलवसनोल्लासितगात्रयष्टयः, द्वारप्रदेशसम्पिण्डिताङ्ग्यः, परशुरामशरविवरविनिर्गता इव कलहंसपङ्कयः, कलहंसकला लापमधुररवैः प्रतिवाचमिव प्रयच्छद्भिर्नूपुरैः पतत्कर्णपूरपल्लवो ल्लासितैश्चाज्ञाश्रवणाय धावद्भिरिव श्रवणैर्मौक्क्तिककुण्डलाशुजाल कानि स्कन्धदेशनिक्षिप्तानि चामराणीव वहन्त्यः, समाहतकपो लस्थलैः कुण्टुलैर्वलादिव वाह्यमानाः, वाचालैः कर्णौत्पलमधुकरैः समाज्ञापयेति व्याहरन्त्यः कन्यकाः समधावन् । आज्ञाप्रतीक्षासु च मुखकमलावलोकिनीषु तासु क्रमेण दृष्टिं पातयन्ती स्निग्धामि न्दीवरस्रजमिव मरकतशिलातले न्यपीदत् । अव्रवीच्च। पत्रलेखे