पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/60

एतत् पृष्ठम् परिष्कृतम् अस्ति

प्येवमस्य यशन्यताविक्लवस्य मा भूद्दर्शनमित्याप्तेनेव सर्वतो नीलीप
रीलम्ब्वमानायामिव भ्राम्यमाणायां तिमिरलेखायाम् कमलेष्वपि
दुःसहत्वाच्छोषकारिणः सन्तापस्य तल्पकल्पनाभीतेष्विव सृङ्कु
चत्सु कुमुदेष्वपि शुचिस्वभावतयाद्रार्द्रेषु शयनसम्पादनायेवाहमह
मिकयोद्दलत्सु चक्रवाकेष्वपि सहचरीविरहविधुरेपु कादम्बरी
समीपगमनोपदेशदानायेवकलकरुणमुच्चैर्मुहुर्मुहुर्व्याहरत्सु चन्द्र
मस्यपि भगवति समस्तभुवनैकातपत्रे सुधारजतकलशे पूर्वदिग्व
?दनचन्दनतिलके गगनतलल?मीलावण्यमहाह्नदे सकललोका
ह्लादकारिनी सुधालिप्तैः करौरिव स्प्रष्टुआछ्वासहेतुना तं ज्योत्सा
१०जलेन च सेक्तुमुदयगिआरईशिखरमारूढे प्रौढे प्रदोषसमये चन्द्रा
पीडस्तास्मिन्नेव वल्लभोद्याने चन्द्रातपस्पर्शदर्शितविशदजललवोद्भे
दहारिणि चन्द्रमणिशिलातले विमुच्याङ्गानि चरणसंवाहनोपसृतं
केयूरकमवादीत | केयूरक किमाकलयसि | आयावद्वयं परापताम
स्ताव?आणान्सन्धारयिप्यति देवी कादम्बरी | पारयिप्यति वा तां
विनोदयितुं मदलेखा । आगमिष्यति वा पुनस्तत्समाश्वासनाय
महाश्वेता । मत्पारिचयोद्वेजिता प्रतिपत्स्य वा शरीरस्थितये
तयोरभ्यर्थनामा | द्रक्ष्यामि वा पुनस्तस्याः आन्तमालोल
तारकमुत्त्रस्तहारईणशावकायताक्षं मुखमित |
स तु व्यज्ञपय | देव धैर्यं समवलाव्य गमनाय यत्नः क्रि
यताम्। तिष्ठतु तावदासन्नवर्ती सखीजनः परिजनो वा | तस्या
हि त्वदालोकनेच्छैव स्वेच्छया निमेषितुमपि न ददाति | समा
गमाशयैवावष्टव्धं हृदयम् । श्वसितमेव मुखे वीहमा | रोमाञ्च
एव क्षणमपि शरीरं न मुञ्चाती | दिवानिशं बाप्प एव लोचनप
थस्थायी | प्रजागर एव रात्रावपि दत्तदृष्टिः | अरितिरेव नैका
किन्याः क्षाम्यत्यवस्थानाम जीवितमेव कण्ठस्थानान्नापसरति |
ऊऋऋऋ
ऋ?ऋ०ऋ।ऊ० ०ं०॥ं?? ॥० ।०ऋ?ऋ॥ंऋ०? प्ला?आं?? ।०? ॥० १॥०??१त।ंप्ल।ध् ०।?