48
कादम्बरी ।
यलेन शुक इव पाठितः पुष्टश्च देवेन । अथवा विनोददानात्तिरश्थामपि सफल एव शिक्षणायासो भवति । तेपि पोषिताः पोषितरि स्नेहमाबघ्नन्ति |तेपि कृतं जानन्ति । तेपि परिचयम नुवर्तन्ते । तेषामपि सहजँस्नेहो मातापित्रोरुपरि दृश्यत एव । न पुनरस्य नष्टोभयलोकस्य पापकारिणो दुर्जातस्य यस्य सर्वमेवा धस्ताद्गतम् । अपि चेदृशाचरितेन तेनाप्यवश्यमेव कस्यांचित्ति र्यग्योनौ पतितव्यं येन तावद्दुरात्मना जातेन केवलं सुख न स्थापिताः सर्व एव वयम्, अपरमेवं दुःखार्णवे निपातिताः । सर्व एव ह्यनाक्षिप्तचेताः प्रवर्तते स्वहिताय परहिताय च । तस्य तु
पुनरस्मानेवं दुःखं स्थापयतो न खहितं नापि च परहितम् । किमनेनैवमात्मद्रुहा कृतमिति मतिरेतावन्न बोधपदवीमवतरति । सर्वथा
दुःखायैवास्माकं तस्य पापकर्मणो ग्रहोपसृष्टस्य जन्म । इत्युक्त्वा हेमन्तकालोत्पलिनीमिवोद्वाप्पां दृष्टिमुद्बहनुद्वेपिताधरश्च बहिर लब्धनिर्गमेण स्फुटन्निवान्तर्मन्युपूरेण निश्वसन्नेवावतस्थे । तदवस्थं च तं तारापीड़: प्रत्युवाच । एतत्खलु प्रदीपेनामे: प्रकाशनं वासरालोकेन भावतः समुद्भासनमवश्यायलेरौराहादन ममृतांशोर्मेघाम्बुबिन्दुभिरापूरणं पयोधेर्व्यजनानिलैरतिवर्धनं प्रभ जनस्य यदस्मद्विधैः परिबोधनमार्यस्य । तथापि प्राज्ञस्यापि बहुश्रुतस्यापि विवेकिनोपि धीरस्यापि सत्त्ववतोप्यवश्यं दुःखाति पातेन विशुद्धमपि वर्षसलिलेन सर इव मानसं कलुपीक्रियते सर्वस्य । कलुषीकृते च मानसे किमिदमिति सर्वमेव दर्शनं नश्यति । न चित्तमालोचयति । न बुद्धिर्बुध्यते । न विवेकोपि विविनक्ति । येन ब्रवीमि । अन्यदस्मत्तो लोकवृत्तमार्य एव सुतरां वेत्ति । किमस्ति कश्चिदसावियति लोके यस्य निर्विकार
यौवनमतिक्रान्तम् । यौवनावतारे हि शैशवेनैव सह गलति गुरुजनस्नेहः । वयसैव सहारोहत्यभिनवा प्रीतिः । वक्षसैव सह
१ 'सहजन्म' इति प. २ 'ब्रवीत्यदः । मत्तो' इति न.